पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमस्तरङ्गः ।

तेन लुण्ठितसर्वस्वः पार्थस्तस्थौ कलत्रवान् ।
श्रीजयेन्द्रविहारान्तः श्रमणैर्दत्तभोजनः ॥ ४२८ ॥
शिशुञ्शंकरवर्मादीन्भ्रातृन्द्वारान्निरोध्य सः ।
तत्र स्थिताननशनैरुत्क्रान्तासूनकारयत् ॥ ४२९ ॥
उद्यतः पितरं हन्तुं मत्रिणोनुमतिप्रदान् ।
बद्धपट्टान्व्यधाद्बद्धनिगडानितरान्पुनः ॥ ४३० ॥
एकदा मत्रिसामन्ततत्रिकायस्थसैनिकाः
पार्थ तदाज्ञामासाद्य निशायां पर्यवेष्टयन् ॥ ४३१ ॥
म्लानक्षीणाम्बरां पत्नीं रुद्धद्वारां निपात्य ते ।
आलिङ्ग्यमानां क्रन्दद्भिस्तर्णकैरिव दारकैः ॥ ४३२ ॥
केशानालम्ब्य कर्षन्तः शर्करोत्पाटिताङ्गकम् ।
विपन्नं गोकुलाद्दान्तमिव निर्हत्य तं गृहात् ॥ ४३३ ॥
क्षुत्क्षामरूक्षं क्रन्दन्तं निजघ्नुर्नग्नविग्रहम् ।
चण्डाला इव निःशस्त्रं कुमुदाद्या नृपप्रियाः ॥ ४३४ ॥
युग्मम् ॥
पितरं निहतं श्रुत्वा राजा संजातकौतुकः ।
प्रातः स्वसचिवैः सार्धं गत्वा हृष्टोथ दृष्टवान् ॥ ४३५ ॥
अत्राङ्गेस्य प्रहारोयं मद्दत्त इति वादिनः ।
तस्याग्रे राजपुरुषाः शशंसुर्निजविक्रमम् ॥ ४३६ ॥
न्यकृत्य स्वीकृतो राज्ञा तदा तद्रञ्जनोद्यतः ।
अचूचुदत्पर्वगुप्तो देवगुप्ताभिधं सुतम् ॥ ४३७ ॥
पार्थस्य निहतस्याङ्गे सोक्षिपत्क्षुरिकां ततः ।
रञ्जितो येन भूपालो जातहासोभवच्चिरम् ॥ ४३८ ॥
डामरैर्लुण्ठितो देशः प्रणाशे चक्रवर्मणः ।
उत्थाप्य पापान्कायस्थांस्तेन भूयोपि दण्डितः ॥ ४३९ ॥