पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङ्गिणी

आसीत्पितृकुलं तस्य भर्क्ष्य टुर्नृपरक्षसः।
और्वाभिधस्य हव्याशविशेपस्येव जीवनम्‌ ॥ ४१७ ॥
तस्यासंप्टक्कराघातसटांकारकरोटिका ।
घ्राणस्क॑न्दादिवाद्यज्ञाः सभायां मुख्यमन्त्रिणः ॥ ४९१८ ॥
तेमात्याश्चारणत्वेन निर्लज्जास्तमरञ्जयन् ।
कालान्तरेण यैरेव भूमिपालैर्भविष्यते॥ ४१९ ॥
पर्वगुप्तोभवत्तस्य सर्वेभ्योप्यधिकं प्रियः ।
आस्थाने नर्तनं कुर्वन्नपाङ्तकटीपरः ॥ ४२० ॥
आ तत्रिविवादृष्टा कीटय्रायान्महीपतीन्।
पर्वगुप्तः सर्वदाभूद्राज्यावाप्तिकृतोद्यमः ॥ ४२१ ॥
तदा निगूढराज्येच्छः सख्यं मुख्यैः स मन्त्रिभिः।
पीतकोशैः प्रविदधे पञ्चभिर्भूभटादिभिः ॥ ४२२ ॥
भूभटः शर्वटश्छोजः कुमुदः सोमृताकरः ।
पवगुप्तेन संबन्धं चक्रिरे कोशपीथिनः ॥ ४२३ ॥
गवाक्षासरसि प्राप्तश्रीजलोवागलद्द्वजः।
संग्रामडामरगृहे यो रक्कः ख्यातपौरुषः ॥ ४२४ ॥
पदातिमात्रो भूपेन दृष्टशौर्यः स संयुगे ।
महोदरो महाकायः प्रापितो मुख्यमन्त्रिताम् ॥ ४२५ ॥
                           युग्मम्‌ ॥
यादृशी तेन ददृशे देवी श्रीः सरसोन्तरे ।
तादृद्रक्कजयादेवीत्यभिधानेन निर्ममे ॥ ४२६ ॥
राज्यं निष्कण्टकं कृत्वा धूर्तेनापजिहीर्षुणा
प्रेरितः पर्वगुप्तेन भूभृञ्चक्रे कुलक्षयम् ॥ ४२७ ॥
१ स्कन्धादि इति श्यात्‌ ।