पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ राजतरङ्गिणी

संप्रेरितः कुसचिवैः शस्त्राभ्यासं चकार सः ।
पाटयन्सुरिकाघातैः कोटवीस्तनकोटरम् ॥ ४४० ॥
गर्भिणीनां च जठरं गर्भान्द्रष्टुमपाटयत् ।
काठिन्यस्य परीक्षार्थमङ्गं कर्मकृतामपि ॥ ४४१ ॥
प्रतिग्रहाग्रहाद्बोराद्यद्वा वधभयाद्विजाः ।
प्रत्यगृह्णन्नग्रहारांस्तस्मादपि नृपाधमात् ॥ ४४२ ॥
क्रूरपापानुरूपेण क्षयरोगेण पार्थिवः ।
ततोनुवाध्यमानोभूदपर्यन्तव्यथातुरः ॥ ४४३ ॥
व्यथया तस्य तादृश्या प्रजा एव न केवलम् ।
तुतुषुर्निजशुद्धान्तमहिष्योपि चतुर्दश ॥ ४४४ ॥
अथान्तःपुरदासीभिर्यः कुतश्चिदुपाहृतः ।
क्षितिपालात्प्रजातोयमिति प्रख्यापितो मृषा ॥ ४४५ ॥
तं शिशुं शूरवर्माख्यं विनिवेश्य नृपासने ।
हस्ते निक्षिप्य सामन्तसचिवैकाङ्गतत्रिणाम् ॥ ४४६ ॥
कम्पनाधिपतेर्बद्धद्वेषः कमलवर्धनात् ।
बिभ्यन्मडवराज्यस्थाड्डामरोत्पाटनक्षमात् ॥ ४४७ ॥
आसन्ननिरयप्राप्तिः पितृहा पार्थिवाधमः ।
शुचौ पञ्चदशाब्दस्य प्रजापुण्यैः क्षयं ययौ ॥ ४४८ ॥
चकलकम् ॥
पितृघातिसुतो राजा जयस्वामिविरोचनम् ।
आषाढशुक्लसप्तम्यां शिशुर्द्रष्टुं विनिर्ययौ ॥ ४४९ ॥
नवा विरेजे राजश्रीर्वालस्य पृथिवीपतेः ।
कृपाणवेणिललिता छत्रचामरहासिनी ॥ ४५० ॥
अत्रान्तरे जवायातैश्चारैरावेदितः श्रुतः ।
सामन्तैर्नगरोपान्तं प्राप्तः कमलवर्धनः ॥ ४५१ ॥