सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८
राजतरङ्गिणी


प्रत्यावृत्तोथ नगरं विवेश विजयोर्जितः।
शौर्यशृङ्गारवसतौ साभिमानः स्वविग्रहे ॥ २३४ ॥
स राजजननीजारः साहंकारो जयार्जनात्‌ ।
मानक्षतिमधिक्षेपैर्वीराणां व्यधितान्वहम्‌ ॥ २३५ ॥
क्षुद्रेण कामिना वेश्यावेश्मनीव नृपास्पदे ।
तेनावृते संप्रवेशो नाभूदन्यस्य कस्यचित्‌ ॥ २३६ ॥
शनैर्विज्ञातवार्तस्य धनमानापहारकृत्‌ ।
सोभूदक्षिगतोत्यर्थे राज्ञो गोपालवर्मणः ॥ २३७ ॥
विद्यते यन्न गञ्जेस्मिंस्तत्सर्वे शाहिविग्रहे ।
गतमित्यव्रवीद्भूपं स कोशगणनोद्यतम्‌ ॥ २३८ ॥
अथ गञ्जाधिपो राजभीतः खार्खोदवेदिनम्‌ ।
रामदेवाह्वयं बन्धुमभिचारमकारयत्‌ ॥ २३९ ॥ #
तयाभिचारक्रियया भुक्तभूर्वत्सरद्वयम्‌ ।
गोपालवर्मनृपतिर्जातदोहो व्यपद्यत ॥ २४० ॥
व्यक्तीभूतकुकर्मा स राजदण्डभयाकुलः ।
रामदेवोवधीत्पापः स्वयमेव स्वविग्रहम्‌ ॥ २४१ ॥
रथ्यागृहीतो गोपालवर्मभ्राताथ संकटः ।
बभूव प्राप्तराज्यः स दशभिर्दिवसैर्व्यसुः ॥ २४२ ॥
अथ वंराक्षये वृत्ते राज्ञः शंकरवर्मणः।
प्रजाप्रार्थनया राज्यं सुगन्धा विदधे स्वयम्‌ ॥ २४३ ॥
गोपालपुरगोपालमठगोपालकेशवान्‌ ।
सा पुरं च स्वनामाङ्कं विदधे धर्मवृद्धये ॥ २४४ ॥
गोपालोवर्मणो जाया नन्दानिन्द्यान्वयोद्भवा ।
शिशुरप्यभवन्नन्दामठकेशवधारिणी ॥ २४५ ॥

१ कारिणी इत्युचितम्‌ ।