सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७६
राजतरङ्गिणी

प्रजाभिशापे पतिते नृपस्योन्मार्गवर्त्तिनः।
त्रिंशद्विंशाः सुतास्तस्य व्यपद्यन्तामयं विना ॥ २१० ॥
वंशः श्रीर्जीवितं दारा नामापि पृथिर्वाभुजाम्‌।
क्षणादेव क्षयं याति प्रजाविप्रियकारिणाम्‌ ॥ २११ ॥
इत्युक्तं वक्ष्यते चाग्रे व्यक्तमेतत्तु चिन्त्यताम् ।
प्रणष्टं तस्य नामापि यथा क्रुरेण कर्मणा ॥ २१२ ॥
नाम्ना पत्तनमित्येव प्रख्यातं स्वपुरं कृतम्‌ ।
कस्यान्यस्याभिधाध्वंसि यथा शंकरवर्मणः ॥ २१३ ॥
स्वस्त्रीयः सुखराजस्य तेन द्वारधिपः कृतः ।
वीरानकाभिधे स्थाने प्रमादादासदद्धधम्‌ ॥ २१४ ॥
तत्कोपात्स स्वयं राजा दत्तयात्रो मदोर्जितः ।
वीरानकं समुन्मूल्य प्रविवेशोत्तरापथम्‌ ॥ २१५ ॥
सिन्धुकूलाश्रयान्देशाञ्जित्वा भूरीन्भयातुरैः ।
कृतानतिर्महीपालैः प्रत्यावृत्तोभवत्ततः ॥ २१६ ॥
उरशां विरातस्तस्य वास्तव्यैरौरशौः समम्‌ ।
निकेतहेतोः सैन्यानामकस्मादुदभूत्कलिः ॥ २१७ ॥
गिरिशृङ्गाधिरूढेन श्वपाकेन निपातितः ।
वेगवाही शरस्तस्य प्रमादादविशद्गलम् ॥ २१८ ॥
मुमूर्षुराप्तान्कटकं संरक्ष्य नयतेति सः ।
उक्त्वा कर्णीरथारूढः स्थानात्तस्माद्विनिर्ययौ ॥ २१९. ॥
हीनदर्शनसामर्थ्यः परिज्ञाय शनैर्गिरा ।
क्रन्दन्त्या वपुरालिङ्ग्य स्थितायाः क्षामभाषितः ॥ २२० ॥
पुत्रं गोपालवर्माख्यं न्यासीकृत्य च रक्षितुम्‌ ।
रिशुदेश्यं महादेव्याः सुगन्धाया अबान्धवम्‌ ॥ २२१ ॥