स तानुवाच सामान्यो भूत्वाहं राज्यमाप्तवान् ।
काले काले सेवकानां जाने सेवापरिश्रमम् ॥ १९८ ॥
ईदृग्दुःखमयं भुक्त्वा ज्ञास्यत्यन्यव्यथां ध्रुवम् ।
प्राप्तैश्वर्यो भवेन्मूढो गर्भेश्चरतयान्यथा ॥ १९९ ॥
उपायैरीदृरौर्योहं कृतः पित्रा सुशिक्षितः ।
तेनापि प्राप्तराज्येन मयैवं पीडिताः प्रजाः ॥ २०० ॥
गर्भवासव्यथां जातः शरीरी विस्मरेद्यथा ।
प्राप्तराज्यस्तथा राजा नियतं पूर्वचिन्तितम् ॥ २०१ ॥
त्वयैव तस्मादेकोद्य वरो मह्यं प्रदीयताम् ।
प्राप्तराज्यः प्रजापीडां मा कार्षीस्त्वमतोधिकाम् ॥ २०२॥
सासूयमिति तेनोक्तः कृतान्योन्यस्मितैर्विटैः ।
राजात्पैर्वीक्षितश्चासीत्कुमारो ह्रीनताननः ॥ २०३ ॥
त्यागभीरुतया तस्मिन्गुणिसङ्गपराङ्मुखे।
आसेवन्तावरावृत्तीः कवयो भल्लटादयः ॥ २०४ ॥
निर्वेतनाः सुकवयो भारिको लवटस्त्वभूत् ।
प्रसादात्तस्य दीन्नारसहस्रद्वयवेतनः ॥ २०५ ॥
कल्पपालकुले जन्म तत्तेनैव प्रमाणितम् 1
क्षीबोचितापभ्रंशोक्तेर्दैवी वाग्यस्य नाभवत् ॥ २०६ ॥
वेष्टितश्मश्रुरुष्णीषो घ्राणस्याग्रे प्रदेशिनी ।
ध्यानैकाग्रा दृगित्यासीत्युस्रराजस्य मन्त्रिणः ॥ २०७ ॥
योयमार्योचितो वेषो दुर्नयासेविनः प्रभोः ।
छन्दानुवृत्त्या स प्राप नटस्येव विडम्बनाम् ॥ २०८ ॥
युग्मम् ॥
सोनुगैः सह निर्द्रोहं जघान द्रोहराङ्कया ।
शूरं दार्वाभिसारेशं शर्वर्यो नरवाहनम् ॥ २०९ ॥
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१८४
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७५
पञ्चमस्तरङगः