सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७४
राजतरङ्गिणी

एकतो व्याधिदुर्भिक्षप्रमुखा विपदोखिलाः ।
प्रजानामेकतस्त्वेका लुब्धता वसुधापतेः ॥ १८७ ॥
भूभुजोभ्यस्तलोभस्य श्रीः केश्चिन्नाभिनन्द्यते ।
अकालकुसुमस्येव फलसंभावनोज्झिता ॥ १८८ ॥
दानं च सूनृता सूक्तिर्विश्वसंवननं प्रभोः ।
लोभः पूर्वे तयोरेव विनाशाय महोद्यमः ॥ १८९ ॥
प्रतापमायतिं शोभां हेमन्ताहस्य वारिदः।
स्मृतिशेषां करोत्येव लोभश्च पृथिवीभुजाम्‌ ॥ १९० ॥
दायादा व्ययभीरुतापरिहृतारब्धेर्भवन्त्युन्नता ।
भृत्याः प्रत्युपकारकातरमतेः कुर्युर्न केपि प्रियम्‌ ।
राशीभूतधनस्य जीवितहृतौ शश्वद्यतेरन्निजा ।
भूभर्तुः क्रियते द्विषेव रभसाल्लोभेन किं नाप्रियम्‌ ॥ १९१ ॥
राजसंवाहनामायं नवायासो जनासुहृत्‌ ।
तदेष लोभप्रभवः प्रजानाथ निवार्यताम्‌ ॥ १९२ ॥
श्रुत्वेति राजपुत्रस्य सोजन्येनोज्ज्वलं वचः ।
स्मितधौताधरो राजा शनैर्वचनमब्रवीत् ॥ १९३ ॥
तवाकृत्यविसंवादि वचः सौजन्यपेशलम्‌ ।
स्मारयत्यद्य मामेतच्चितवृत्तिं पुरातनीम्‌ ॥ १९४ ॥
कुमारभावे पूर्वं मे तवेवार्द्रान्तरात्मनः ।
प्रजावत्सलता वत्स पर्याप्ता पर्यवर्धत ॥ १९५ ॥
सोहं धर्मे महद्धर्मे शीति दत्त्वोच्छमंशुकम् ।
पदातिरपपादत्रः पित्रा संचारितोभवम्‌ ॥ १९६ ॥
मृगव्यादौ हयैः सार्धमटन्तं कण्टकक्षतम् ।
अन्तर्बाष्पं मां विलोक्य तमसूयिषुरग्रगाः ॥ १९७ ॥

१ दत्त्वोन्नं इति स्यात् ।