पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७२
राजतरङ्गिणी


राज्यप्रदेन नृपते रत्नवर्धनमन्त्रिणा ।
श्रीरत्नवर्धनेशाख्यो व्यधीयत सदाशिवः ॥ १६३ ॥
चित्रं नृपाद्विपाः पूतमूर्तयः कीर्तिनिर्झरैः ।
भवन्ति व्यसनासक्तिपांसुस्नानमलीमसाः ॥ १६४ ॥
अथ कमेण नृपतिर्लोभाभ्यासेणन भूयसा ।
आधीयमानचित्तोभूत्प्रजापीडनपण्डितः ॥ १६५ ॥
आरब्धैर्व्यसनैर्भूम्ना क्षीणकोशः क्षणे क्षणे ।
देवादीनां स सर्वस्वं जहारायासयुक्तिभिः॥ १६६ ॥
कर्मस्थाने पुरगृहग्रामादिधनहारिणा ।
तेनाट्टपतिभागाख्यगृहकृत्याभिधे कृते॥ १६७ ॥
धूपचन्दनतैलादिविक्रयोत्थं समाददे ।
द्रविणं देववेश्मभ्यः क्रयमूल्यकलाछलान् ॥ १६८ ॥
प्रत्यवेक्षां मुखे दत्वा विभक्तैरधिकारिभिः।
चतुःषष्टिं सुरगृहान्मुमोषेतरदञ्जसा ॥ १६९ ॥
ग्रामान्देवगृहग्राह्यात्राजा प्रतिकरेण सः ।
स्वयं स्वीकृत्य चोत्पत्तिं क्ष्मां कार्षक इव व्यधात्‌ ॥ १७० ॥
तुलां कृत्वा त्रिभागोनां बर्षदेयां स पर्षदे ।
भुक्तिकम्बलमूल्यादिदम्भादभ्यधिकं ददौ ॥ १७१ ॥
दिगन्तरस्थो ग्रामीणानूढभाराननागताम् ।
तद्देशार्धैर्भारमूल्यं वर्षमेकमदण्डयत्‌ ॥ १७२ ॥
वर्षेपरस्मिन्निखिलान्भारमूल्यं निरागसः ।
तयेव संख्यया ग्राम्यान्प्रतिग्राममदण्डयत् ॥ १७३ ॥
इत्येषा गुढभारोढिः प्रथमं तेन पातिता ।
दारिद्य्रदूती ग्रामाणां या त्रयोदराधा स्थिता ॥ १७७ ॥