पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० राजतरङ्गिणी

तत्सेना नरनाथानां पृतनाभिः पदे पदे ।
कुलापगेव कुल्याभिर्विशन्तीभिरवर्धत ॥ १४० ॥
दार्वाभिसारराजेन त्रस्यता समुपाश्रिताः ।
अद्विद्रोण्यो न वाहिन्यस्तत्सेनानादमादधुः ॥ १४१ ॥
जनोल्बणैर्हरिगणैर्गृह्णन्हरिगणं क्षणात् ।
अनासहितदुर्ग स चक्रे दुर्गान्तरातिथिम् ॥ १४२ ॥
लक्षाणि नव पत्तीनां वारणानां शतत्रयी ।
लक्षं च वाजिनामासीद्यस्य सेनापुरःसरम् ॥ १४३ ॥
स गुर्जरजयव्यग्रः स्वपराभवशङ्किनम् ।
त्रैगर्त पृथिवीचन्द्रं निन्ये तैमसि हास्यताम् ॥ १४४ ॥
पुत्रं भुवनचन्द्राख्यं नीविं प्रागेव दत्तवान् ।
स ह्यभूत्प्रणतिं कर्तुं तस्याभ्यर्णमुपागतः ॥ १४५ ॥
अथ तत्कटकं भ्राम्यद्भूरिमण्डलनायकम् ।
वीक्ष्य संमुखमायान्तं महार्णवमिवोल्बणम् ॥ १४६ ॥
समागमक्षणे यस्माच्छङ्कमानः स्वबन्धनम् ।
पलाय्य प्रययौ दूरं निर्वाणौजोविजृम्भितः ॥ १४७ ॥
तिलकम् ।।
यमप्रतिमसौन्दर्यमद्याप्याहुः पुराविदः ।
तमेवाद्राक्षुरुत्रस्ता नृपाः कालमिवोल्वणम् ॥ १४८ ॥
उच्चखानालखानस्य संख्ये गूर्जरभूभुजः ।
बद्धमूलां क्षणाल्लक्ष्मीं शुचं दीर्घामरोपयत् ॥ १४९ ॥
तस्मै दत्त्वा टक्कदेशं विनयादङ्गुलीमिव ।
स्वशरीरभिवापासीन्मण्डलं गूर्जराधिपः ॥ १५० ॥

१ जवोल्वणैः इति स्यात् । २ अनासादितदुर्ग इत्युचितः पाठः | ३ तमपि इति स्यात् । ●