पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५३
चतुर्थस्तरङ्ः

  

संकोचकारिणो वृद्धान्नर्मोक्त्योद्वेज्य वारयन् !
तस्माद्विटजनो लेभे संप्रीतात्पारितोषकम्‌ ॥ ६६८ ॥
अट्टचेट इव स्पष्टपरिहासविचक्षणः ।
सोलज्जयन्मन्त्त्रिवृद्धानास्थाने गणिकासखः ॥ ६६९ ॥
बन्धकीपादमुद्राङ्कं चारु प्रावरणादि सः।
गौरवार्हान्दुराचारः सचिवान्पर्यधापयत् ॥ ६७० ॥
मानी मनोरथो मन्त्री परं परिजहार तम्‌ ।
अशक्नुवन्यमयितुं मध्यपातपराङ्मुखः ॥ ६७१ ॥
कुकृत्यं योगवाहित्वं वैधुर्यं द्रोहवृत्तिता ।
दुर्वृत्तस्य प्रभोरन्यत्परिहारान्न भेषजम्‌ ॥ ६७२ ॥
सुवर्णपार्श्वं विप्रेभ्यो ददत्फलपुरं तथा ।
भूभृत्स लोचनोत्सं च द्वादशाब्दानभूद्विभुः ॥ ६७३ ॥
कल्याणदेव्यां संजातो जयापीडमहीभुजः ।
संग्रामापीडनामाथ बभूव भुवनेश्वरः ॥ ६७४ ॥
पृथिव्यापीड इत्यन्यन्नाम विभ्रत्स भूपतिः ।
समाप्तिं सप्तभिर्वर्षैः साम्राज्यस्य समासदत्‌ ॥ ६७५ ॥
श्रीचिप्पटजयापीडो बृहस्पत्यपराभिधः ।
ललितापीडजो राजा शिशुदेश्यस्ततोभवत् ॥ ६७६ ॥
रागग्रहगृहीतस्य ललितापीडभूपतेः ।
वेश्यायां कल्पपाल्यां यो जयादेव्यामजायत ॥ ६७७ ॥
उप्पाख्यस्याखुवग्रामकल्पपालस्य तां सुताम्‌ ।
रूपलुब्धोवरुद्धात्वमनैषीत्स हि भूपतिः ॥ ६७८ ॥
पद्मोत्पलककल्याणमम्मधम्मैः स मातुलैः ।
बालकैः पाल्यमानोभूत्पृथिवीभोगभागिभिः ॥ ६७९. ॥



१ बालकः इत्युचितम्‌ ।