पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङिगिणी

 

तस्यानियतचित्तस्य त्रिंशतं परिवत्सरान्।
एवं प्रतापिनः सैकान्भूभोगो भूपतेरभूत्‌ ॥ ६५७ ॥
तथा भूभृन्मत्स्या द्रविणकलिषाम्भःकृततृषः
स्थितिं स्वामुज्झमन्तो विदधति कुमार्गानुसरणम् ।
क्रियन्ते कार्तान्तानुगविकृतकैवर्तनिवहै-
र्यथाह्येतेकस्मात्स्थिरनिरयजालप्रणयिनः ॥ ६५८ ॥
कृतपापं तमुद्दिश्य विपन्नमभृतप्रभा ।
मृतोद्धाराय तन्माता व्यधत्तामृतकेशवम्॥ ६५९ ॥
ललितापीडनामाभूत्ततो वसुमतीपतिः ।
देव्यां दुर्गाभिधायां यो जयापीडादजायत ॥ ६६० ॥
बभूव रागिणो राज्ये राज्यकार्याण्यपश्यतः ।
यस्य वाराङ्गनाभोज्यं राज्यं दुर्नयदूषितम्‌ ॥ ६६१ ॥
दुष्कृतेनार्जितं वित्तं पित्रा निरयभागिणा |
यश्चारणादिषु न्यसन्ननुरूपव्ययं व्यधात्‌ ॥ ६६२ ॥
बन्धकीवन्धुभावेन प्राप्तराजगृहाश्रयाः ।
तं पाश्चालीयविद्यानामन्तरङ्गं व्यधुर्विटाः ॥ ६६३ ॥
केशान्स्त्रीदशनच्छिन्नान्वक्षस्तन्नखलाञ्छितम्।
वपुषो मण्डनां मेने किरीटकटकोज्झितः ॥ ६६४ ॥
यो यो वेश्याकथाभिज्ञो यो यो नर्मविचक्षणः ।
स स तत्प्रियतां लेभे न शूरो न च पण्डितः ॥ ६६५ ॥
अतृप्तः स्त्रीभिरल्पाभिरुग्ररागः स पाथिवः।
जडं मेने जयापीडं स्त्रीराज्यान्निर्गतं जितात्‌ ॥ ६६६ ॥
दिङ्निर्जयव्यसनिनः पूर्वभूपाञ्जहास सः ।
गणिकाभोगसुखितः स्वसामयिकमध्यगः ॥ ६६७ ॥