पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५१
चतुर्थस्तरङ्गः ।

भीमभ्रूभङ्गश्रीतेषु तेषु तूष्णीं स्थितेष्वथ ।
इट्टिलाख्यस्तमाह स्म ब्रह्मतेजोनिधिर्द्विजः॥ ६४५ ॥
राजन्युगानुरूप्येण भावाभावानुवर्तिनः ।
शासितुस्तेनुसारेण न कस्मादृषयो वयम् ॥ ६४६ ॥
आह स्म विश्वामित्रो वा वसिष्ठो वा तपोनिधिः ।
त्वमगस्त्योथवा किं स्या इति दर्पेण तं नृपः ॥ ६४७ ॥
ज्वलन्निव ततः स्फूर्जत्तेजोदुष्प्रेक्ष्यविग्रहः
स फणीवोत्फणस्ताम्यन्को पान्नृपतिमब्रवीत् ॥ ६४८ ॥
भवान्यत्र हरिश्चन्द्रस्त्रिशङ्कुर्नहुषोपि वा ।
विश्वामित्रमुखेभ्योहं तत्रैको भवितुं क्षमः ॥ ६४९ ॥
विहस्योवाच तं राजा विश्वामित्रादिकोपतः ।
हरिश्चन्द्रादयो नष्टास्त्वयि क्रुद्धे तु किं भवेत्‌ ॥ ६५० ॥
पाणिना ताडयन्नुर्वी ततः क्रुद्धोभ्यधाद्विजः ।
मयि क्रुद्धे क्षणादेव ब्रह्मदण्डः पतेन्न किम्‌ ॥ ६५१ ॥
तच्छ्रुत्वा विहसन्न्राजा कोपाद्ब्राह्मणमब्रवीत् ।
पततु ब्रह्मदण्डोसौ किमद्यापि किमद्यापि विलम्बते ॥ ६५२ ॥
नन्वयं पतितो जाल्मेत्यथ विप्रेण भाषिते ।
राज्ञः कनकदण्डोङ्गे वितानस्खलितोपतत्‌ ॥ ६५२ ॥
कृतव्रणः स तेनाङ्गे विसर्पक्लिन्नविग्रहः ।
कीर्यमाणक्रिमिकुलः क्रकचैश्चारितैरभूत् ॥ ६५४ ॥
अनुभाव्य व्यथां भाविनिरयक्लेशवर्णिकाम् ।
गणरात्रेण तं प्राणाः काङ्क्षितापगमा जहुः ॥ ६५५ ॥
ब्रह्मदण्डकृतं दण्डं भुक्त्वा दण्डधराधिपः |
अकाण्डदण्डस्रष्ठाथ ययौ दण्डधरान्तिकम्‌ ॥ ६५६ ॥