पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० राजतरङ्गिणी

विप्राणां शतमेकोनमेकाहेन विपद्यते ।
निवेद्यमेतदित्यूचे क्रौर्याक्रान्तोथ पार्थिवः ॥ ६३३ ॥
विपर्यस्तचरित्रस्य तस्य क्रूरस्य भूपतेः ।
एवं स्तुतिविपर्यासः काव्येष्वपि बुधैः कृतः ॥ ६३४ ॥
नितान्तं कृतकृत्यस्य गुणवृद्धिविधायिनः |
श्रीजयापीडदेवस्य पाणिनेश्च किमन्तरम् ॥ ६३५ ॥
भाप्यव्याख्याक्षणे लोको वैचक्षण्यहृतैः कृतः ।
सोयं तस्य विपर्यासो वुधैरेव प्रवर्तितः ॥ ६३६ ॥
कृतविप्रोपसर्गस्य भूतनिष्ठाविधायिनः ।
श्रीजयापीडदेवस्य पाणिनेश्च किमन्तरम् ॥ ६३७ ॥
तूलमूल्यापहर्ता च चन्द्रभागातटे स्थितः ।
विप्राणां शतमेकोनमशृणोत्तजले मृतम् ॥ ६३८ ॥
ततोग्रहारहरणादेव प्रविरतोभवत् ।
वास्तव्यानां हृतां भूमिं न तु निःशेषतो जहौ ॥ ६३९ ॥
अथ विज्ञप्तिसमये तूलमूल्यौकसो द्विजाः ।
चुक्रुशुर्जातु तस्याने प्रतीहारकराहताः ॥ ६४० ॥
मनुमांधातृरामाद्या बभूवुः प्रवरा नृपाः ।
अन्वभावि तदपि ब्राह्मणैर्न विमानना ॥ ६४१ ॥
सेन्द्रं स्वर्ग सशैलां क्ष्मां सनागेन्द्रं रसातलम् ।
निर्दग्धं हि क्षणेनैव विप्राः शक्ताः प्रकोपिताः ॥ ६४२ ॥
तदाकर्ण्यास्तसामन्तत्यक्तपृष्ठः क्षमापतिः ।
उल्लासितैक भ्रलेखो दर्पाद्वचनमब्रवीत् ॥ ६४३ ॥
भिक्षाकणभुजां कोयं शठानां वो मदज्वरः ।
येनर्षय इव बूथ प्रभावाख्यापकं वचः ॥ ६४४ ॥