चतुर्थस्तरङ्गः ।
काश्मीरिकाणामुत्पन्नं निजाज्ञाव्यवधायकम् ।
कायस्थवक्रप्रेक्षित्वं ततः प्रभृति भूभृतात् ॥ ६२३ ॥
मन्त्रस्तस्य महीभर्तुर्योभूत्तत्तन्नृपग्रहे ।
वास्तव्यबन्धचिन्तायां स एव स्थैर्यमाययौ ॥ ६२४ ॥
यत्सतां प्रशमाधायि पापस्योपदिदेश तत् ।
जयापीडस्य पाण्डित्यं प्रजापीडनशौण्डताम् ॥ ६२५ ॥
स सौदास इवानेकलोकप्राणापहारकृत् ।
अस्तुत्यकृत्यसौहित्यं स्वप्नेपि न समाययौ ॥ ६२६ ॥
कुर्मः किल्बिषमेतदेव हृदये कृत्वेति कौतूहला-
त्स्वैरिण्यः क्षितिपाश्च धिक्कपलतां क्रौर्य च कुर्युः सकृत् ।
पापाक्रान्तधियो भवन्त्यथ तथा नान्त्यान्स्पृशन्त्योपि ता
दूयन्ते न च ते यथा स्वपितरौ घ्नन्तोपि शान्तत्रपाः॥६२७॥
लोभाभ्यासात्तथा क्रौर्य स ययौ वत्सरत्रयम् ।
सह कार्षिकभागेण यथाहार्षीच्छरत्फलम् ॥ ६२८ ॥
लुब्धत्वध्वस्तधीर्भूभृत्स्वल्पवित्तलवप्रदान् ।
सर्वस्वहारिणो मेने कायस्थान्हितकारिणः ॥ ६२९ ॥
सामुद्रास्तिमयो नृपाश्च सहशा एके हृतादम्भसः
स्वस्मादेव कणान्घनस्य जहतो जानन्ति ये दातृताम् ।
सर्वस्मात्स्फुटलुण्ठिताद्वितरतो लेशान्किलान्येपि ये
दुष्कायस्थकुलस्य हन्त कलयन्त्यन्तर्हिताधायिताम् ॥६३०
सर्वकालं ब्राह्मणानामहो धैर्यमकुण्ठितम् ।
निस्त्रिंशस्य बभूवुर्ये तस्यापि परिपन्थिनः ॥ ६३१ ॥
देशान्तरं प्रयातेभ्यो ये शेषास्ते व्यरंसिषुः ।
विक्रोशन्तो न मरणाद्धरणान्नापि पार्थिवः ॥ ६३२ ॥