सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३१
चतुर्थस्तरङ्ग:।

प्रख्यापयिष्यन्स्वामेव शक्तिं परिकरं विना ।
निश्चिकाय जयापीडो युक्तां कांचित्तु संविदम्‌ ॥ ४१२॥
अभङ्गुरास्तेभिमानास्तस्यैवासन्मनस्विन:|
अत्यवर्तत यैरेष वैधात्रीरपि वामता: ॥ ४१३ ॥
स विसृज्य भुवं स्वां स्वां भूपतीननुयात्रिकान् ।
प्रयागमगमत्स्यैन्यै: परिमेयैर्निजै: समम्‌ ॥ ४१४ ॥
तत्रावशिष्टान्नुच्चित्य वाजिन: स मनोजवान्‌ ।
द्विजेभ्यो लक्षमेकोनं प्रददौ भूरिदक्षिणम्‌ ॥ ४१५ ॥
संपूणेमन्यो लक्षं यः प्रदद्यादत्र वाजिनाम्‌ ।
तन्मुद्रयेयं मन्मुद्रा विनिवार्येत्युदीर्य च ॥ ४१६॥
श्रीजयापीडदेवस्येत्यक्षरैरुपलक्षिताम् |
दिग्देशगामिनो मुद्रां गाङ्गस्य पयसो ददौ ॥ ४१७ ॥
तन्मुद्राङ्कं पयः पीत्वा गाङ्गमद्यापि निर्मलम्‌ ।
चित्ते प्रवर्धते तापो भूपानामभिमानिनाम्‌ ॥ ४१८ ॥
स्वदेशगमनानुज्ञां सैन्यस्याप्तमुखेन सः ।
दत्वा निशायमेकाकी निर्ययौ कटकान्तरात्‌ ॥ ४१९ ॥
मण्डलेषु नरेन्द्राणां पयोदानामिवार्यमा
॥ ४२०॥
गोडराजाश्रयं गुप्तं जयन्ताख्येन भूभुजा ।
प्रविवेश क्रमेणाथ नगरं पौण्ड्रवर्धनम् ॥ ४२१ ॥
तस्मिन्सौराज्यरम्याभि: प्रीत: पौरविभूतिभिः।
लास्यं स द्रष्टुमविशत्कार्तिकेयनिकेतनम् ॥ ४२२ ॥
भरतानुगमालक्ष्य नृत्तगीतदि शास्त्रवित् ।
ततो देवगृहद्वारशिलमध्यास्त स क्षणम्‌ ॥ ४२३ ॥