पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० राजतरङ्गिणी

जातो मम्माभिधानायां वप्पियात्सप्त वासरांन् ।
संग्रामापीडनामाथ तमुत्पाट्याभवन्नृपः ॥ ४०० ॥
भ्रातरौ तौ समासाद्य राज्यं नैव व्यराजत ।
हेमन्तशिशिरावाप्य चण्डांशोरिव मण्डलम् ॥ ४०१ ॥
शान्तेथ संग्रामापीडे कनीयान्वप्पियात्मजः ।
राजा श्रीमाञ्जयापीडः प्राप राज्यं ततः क्रमात् ॥ ४०२ ॥
पितामहसमो भूया इत्यमात्यवचः स्मरन् ।
जिगीषुः संभृतबलो दिग्जयाय स निर्ययौ ॥ ४०३ ॥
स्वदेशादेव नयविद्वशं नीतैः समं नृपैः ।
वृद्धान्पप्रच्छ निर्गच्छन्कश्मीरद्वारगोचरान् ॥ ४०४ ॥
पितामहस्य नः सैन्यं कियन्निर्गच्छतोभवत् ।
इति ब्रूताद्य यात्रासु यूयं संख्यातसैनिकाः ॥ ४०५ ॥
कृतस्मितास्तमृचुस्ते किं प्रश्नामुना प्रभो ।
वस्तु कश्चिदतिक्रान्तं नानुकर्तु क्षमोधुना ॥ ४०६ ॥
कर्णीरथानां तस्यासीत्सपादं लक्षमीशितुः ।
अशीतिस्तु सहस्राणि देवस्याद्य जयोद्यमे ॥ ४०७ ॥
तदाकर्ण्य जयापीडो बहु मेने न निर्जयम् ।
क्षिप्रं क्षितेः संकुचन्त्याः कालस्य बलवत्तया ॥ ४०८ ॥
जिगीषोः क्षमाभुजस्तस्य भावमालोक्य तादृशम् ।
दध्युर्भावज्ञतां वृद्धा ललितादित्यभूपतेः ॥ ४०९ ॥
तस्य दूरप्रयातस्य स्यालो जज्जाभिधो बलात् ।
द्रोहेणाक्रम्य कश्मीरान्स्वयं भेजे नृपासनम् ॥ ४१० ॥
दिने दिने राजसैन्यात्स्वदेशस्मारिणस्ततः ।
सैनिकाः स्वा न्यवर्तन्त स्वामिभक्तिपराङ्मुखाः ॥ ४११ ॥

१ वत्सरान् इति स्यात् ।