पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थस्तरङ्गः ।

सैकादशदिनान्सप्त मासान्तं समाः ।
एवमाह्लाद्य स महीं प्रजाचन्द्रोस्तमाययौ ॥ ३६६ ॥
तुषारवर्षैर्बहलैस्तमकाण्डनिपातिभिः ।
आर्याणकाभिधे देशे विपन्नं केचिदूचिरे ॥ ३६७॥
राजप्रष्टः प्रतिष्ठां स रक्षितुं चिरसंचिताम् ।
संकटे क्वापि दहनं प्राविक्षदिति केचन ॥ ३६८ ॥
केषांचित्तु मते भूभृहवीयस्युत्तरापथे ।
सोमर्त्यसुलभां भूमिं प्रविष्टः कटकान्वितः ॥ ३६९ ॥
अत्यद्भुतानि कृत्यानि श्रुतान्यस्य यथा किल ।
विपत्तिरपि भूभर्तुस्तथैवात्यद्भुता श्रुता ॥ ३७० ॥
यातोस्तं द्युमणिः पयोधिसलिलं कैश्चित्प्रविष्टोपरैः
संप्राप्तो दहनं गतः किल परैर्लोकान्तरे कीर्त्यते ।
जायन्ते महतामहो निरुपमप्रस्थानहेवाकिनां
निःसामान्यमहत्त्वयोगपिशुना वार्ता विपत्तावपि ॥ ३७१ ॥
ततः कुवलयापीडो भेजे कुवलयेशताम् ।
जातः कमलदेव्या यः श्रीमाञ्शक इवादितेः ॥ ३७२ ॥
त्यागेन चक्रे विशदां योनुरक्तां नृपश्रियम् ।
महोरगस्त्वचमिव स्वभावमलिनामपि ॥ ३७३ ॥
भ्रात्रा तुल्यप्रभावेन कंचित्कालं हृतप्रभः ।
स हुताशोष्मणाक्रान्तः प्रदीप इव नारुचत् ॥ ३७४ ॥
भृङ्गैरिवानु गैर्दानलोभात्पर्यायवृत्तिभिः ।
श्रीर्दुस्थाभूत्तयोरन्तर्मत्तेभकटयोरिव ॥ ३७५ ॥
अथोभयधनादायिभृत्यचक्रिकया समम् ।
राजा कुवलयापीडो बभञ्जानुजमञ्जसा ॥ ३७६ ॥

१२७