पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ राजतरङ्गिणी

राज्यं निष्कण्टकं कृत्वा ततः प्राप्तवलो नृपः ।
दिग्जयायोर्जितक्रान्तिः सोभूत्संभृतसाधनः ॥ ३७७ ॥
एकस्तस्मिन्क्षणे मन्त्री तस्याज्ञामुद्लङ्घयत् ।
स्मरन्वा तत्पितुर्वाचं भजन्वा दर्पविक्रियाम् ॥ ३७८ ।।
प्राप्तायामथ यामिन्यां तल्पे कोपाकुलो नृपः ।
तमाशातिक्रमं ध्यायन्न निद्रां क्षणमप्यगात् ॥ ३७९ ॥
एवं कृतागसं हन्तुं सस्पृहस्य तदाश्रयात् ।
वहवः प्रत्यभासन्त वध्यास्तस्योद्यतत्रुधः ॥ ३८० ॥
विचारशैलमथितात्तस्य चित्तमहोदधेः ।
प्रकोपकालकूटस्य पश्चाच्छमसुधोद्गात् ॥ ३८१ ॥
दध्यौ सोध गतक्रोधः प्रवृद्धः प्राणिसंक्षयः ।
एतावान्कस्य नु कृते कर्तव्यः प्रत्यभान्मम ॥ ३८२ ||
अकार्याण्यपि पर्याप्य कृत्वापि वृजिनार्जनम् ।
विधीयते हितं यस्य स देहः कस्य सुस्थिरः ॥ ३८३ ॥
कृतघ्नस्यास्य कायस्य हेतोरगलितस्मृतेः ।
हन्तव्याः कस्य पन्थानः प्रतिभान्त्यनपायिनः ॥ ३८४ ॥
विदन्ति जन्तवो हन्त पच्यमानस्य नात्मनः ।
अवस्थां कालसूदेन कृतां तां तां क्षणे क्षणे ॥ ३८५ ॥
हाः पश्यद्भिरकरणस्मितसितं पाथोजकोशाकृति
इमश्रृद्धोधकठोरमद्य रभसादुत्तप्तताम्रप्रभम् ।
प्रातर्जीर्णवलक्ष केशविकृतं वृद्धाजशीर्पापमं
वक्रं नः परिहस्यते ध्रुवमिदं भूतैश्चरस्थास्नुभिः ॥ ३८६ ॥
इत्याद्यनित्यताचिन्तादत्तशान्तिसुखादरः ।
राज्यं संत्यज्य स वनं प्रस्रवणं ययौ ॥ ३८७ ॥