पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ राजतरङ्गिणी

पुत्रः कुवलयादित्यो वज्रादित्यश्च मे समौ ।
भिन्नशीला तयोर्भ्रात्रोर्धीद्वैमातुरयोः पुनः ॥ ३५५ ।।
ज्यायान्त्राज्येभिषेक्तव्यः स च स्याद्बलवान्यदा |
तस्याज्ञातिक्रमः कार्यो भवद्भिनियमात्तदा ॥ ३५६ ॥
उत्सृजञ्जीवितं वापि राज्यं वापि स पार्थिवः ।
शोचनीयो न केनापि स्मरतेदं वचो मम ॥ ३५७ ॥
कार्यः कनीयान्न नृपः प्रमादात्क्रियते यदि ।
नोल्लङ्घनीया तस्याज्ञा रक्ष्यश्च विषमोपि सः ॥ ३५८ ॥
पौत्रेषु मे कनीयान्यो जयापीडोस्ति दारकः ।
पितामहसमो भूया इति वाच्यः स सर्वदा ॥ ३५९ ॥
भर्तुर्गृहीतनैराश्याः साभिप्रायां प्रणम्य ताम् ।
आनर्चुः पश्चिमामाज्ञां ते बाष्पार्धकणत्यजः ॥ ३६० ॥
उवाच चङ्कुणो जातु संनिपत्याखिलाः प्रजाः ।
बाष्पैः पतिवियोगाग्नितप्तां सिञ्चन्वसुंधराम् ॥ ३६१ ॥
राज्ये कुबलयापीडो राजपुत्रोभिषिच्यताम् ।
सुगृहीताभिधो राजा गतः स सुकृती दिवम् ॥ ३६२ ॥
ससृजे यस्य कृतिनो दैवतैः कोशवृद्धये ।
रससिद्धिरकस्मान्मे यस्मात्सास्तमुपागता ॥ ३६३ ॥
दूरस्थोपि हि भूभृत्स भाग्यशक्त्या कयाचन |
कार्याणि घटयन्नासीद्दुर्घटान्यपि हेलया ॥ ३६४ ॥
अम्भोजानि घनाघनव्यवहितोप्युल्लाघयत्यंशुमा-
न्दूरस्थोपि पयोधरोतिशिशिरस्पर्श करोत्यातपम् ।
शक्तिः काव्यपरिक्षतास्ति महतां स्वैरं दविष्ठान्यहो
यन्माहात्म्यवशेन यान्ति घटनां कार्याणि निर्यत्रणाम् ॥३६५॥

1