पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थस्तरङ्गः ।

तस्मादाचारसारं वो वक्ष्ये स्वविषयोचितम् ।
राज्यं तदनुसारेण निर्विघ्नं कुरुतानघाः ॥ ३४४ ॥
अत्रस्थैः सर्वदा रक्ष्यः स्वभेदः प्रभविष्णुभिः ।
चार्वाकाणामिवैषां हि भयं न परलोकतः ॥ ३४५ ॥
अपराधं विनाप्यत्र दण्ड्या गहरवासिनः ।
ते हि संभृतवित्ताः स्युर्दुर्भेद्या दुर्गसंश्रयाः ॥ ३४६ ॥
वर्षीपभोग्यान्यन्नानि क्षेत्रभूसंमिता वृषाः ।
ग्राम्याणां नातिरिच्यन्ते यथा कार्य तथासकृत् ॥ ३४७ ॥
अधिकीभूतवित्ता हि वत्सरेणैव ते भृशम् ।
भवेयुर्डामराः क्रूरा नृपाज्ञातिक्रमक्षमाः ॥ ३४८ ॥
वस्त्रं स्त्रियः कुथा भोज्यमलंकारा हया ग्रहाः |
आसाद्यन्ते यदा जातु ग्रामीणैर्नगरोचिताः ॥ ३४९ ॥
मदाद्दुर्गाण्युपेक्ष्यन्ते संरक्ष्याणि यदा नृपैः ।
यदा चानन्तरशत्वं तेषां भृत्येषु दृश्यते ॥ ३५० ॥
प्रदेशादेकतो रूढा यदा वृत्तिश्च शस्त्रिणाम् ।
अन्योन्योद्वाहसंबन्धैः कायस्थाः संहता यदि ॥ ३५१ ॥
कर्मस्थानानि वीक्षन्ते क्षमापाः कायस्थवद्यदा |
तदा निःसंशयं ज्ञेयः प्रजाभाग्यविपर्ययः ॥ ३५२ ॥
चकलकम् ॥
चेष्टानुसारेणोन्नीय गूढमाशयसंविदम् ।
मयोक्तं हृदये कार्यमन्तरं राजवीजिनाम् ॥ ३५३ ॥
प्रत्यासत्तिं मदकरटिनो दानगन्धेन वायु-
गर्जोद्भूति प्रकटितरुचिश्चञ्चलेवाम्बुदस्य ।
चेष्टा स्पष्टं वदति मतिमन्नैपुणोन्नेयतत्त्वा
जन्तोर्जन्मान्तरपरिचितां निश्चलां चित्तवृत्तिम् ॥ ३५४ ॥

१२५