पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ राजतरङ्गिणी

क्व दीर्घकाललङ्घयोध्वा शान्ते भक्तिः क्व च प्रभौ ।
विधातुरप्यसाध्यं तद्यद्गौविहितं तदा ॥ ३३२॥
लोकोत्तरस्वामिभक्तिप्रभावानि पदे पदे ।
तादृशानि तदाभूवन्भृत्यरत्नानि भूभृताम् ॥ ३३३ ॥
राशः प्रियो रक्षितोभृगौडराक्षसविलवे ।
रामस्वाम्युपहारेण श्रीपरीहासकेशवः ॥ ३३४ ॥
अद्यापि दृश्यते शून्यं रामस्वामिपुंरास्पदम् ।
ब्रह्माण्डं गौडवीराणां सनाथं यशसा पुनः ॥ ३३५ ॥
एवं नानाविधोदन्तैर्वासराः क्षमापतेर्ययुः ।
विरलाः स्वपुरे तस्य भूयांसस्तु दिगन्तरे ॥ ३३६ ॥
अनन्याक्रान्तपृथिवीसमालोकनकौतुकी ।
अपारं प्रविवेशाथ पुनरेवोत्तरापथम् ॥ ३३७ ॥
कर्तुं प्रभावजिज्ञासां प्रहितैर्धनदादिभिः ।
नैरृतैः सह वृत्तान्तास्तस्य ते ते तदाभवन् ॥ ३३८ ॥
नाद्यापि या भुवो दृष्टा जाने भानुकरैरपि ।
राज्ञस्तस्य बभूवाज्ञा तत्र स्वैरविहारिणी ॥ ३३९ ॥
चिरमज्ञातवृत्तान्तैर्मन्त्रिभिः प्रहितस्ततः ।
प्रत्यावृत्तस्तस्य पार्श्वाद्दूतस्तानेवमुक्तवान् ॥ ३४० ॥
इत्यादिशति वः स्वामी कोयं मोहो भवादृशाम् ।
क्ष्मामिमां मे प्रविष्टस्य प्रतीक्षध्वे यदागमम् ॥ ३४१ ॥
नवं नवं प्रतिदिनं संत्यज्य विजयार्जनम् ।
स्वराष्ट्रं संप्रविष्टस्य किं कार्य मम पश्यथ ॥ ३४२ ॥
विनिर्गतानां स्वभुवः सरितां सलिलाकरः ।
न निर्व्याजजिगीषूणां दृश्यते ह्यवधिः क्वचित् ॥ ३४३ ॥

१ सुरास्पदम् इति स्यात् ।