पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थस्तरङ्गः ।

नृपमपथगं पान्ति प्राणानुपेक्ष्य निजानपि
प्रसभमिह ये तैः पूतेयं महात्मभिरुर्वरी ॥ ३२१ ॥
अतीन्द्रमपि माहात्म्यं राशस्तस्याधितिष्ठतः ।
अयमन्योपि दोषोभूदितरक्षितिपोचितः ॥ ३२२ ॥
दत्त्वापि यत्स मध्यस्थं श्रीपरीहासकेशवम् |
जघान तीक्ष्णपुरुषैस्त्रिग्राम्यां गौडपार्थिवम् ॥ ३२३ ॥
गौडोपजीविनामासीत्सत्त्वमत्यद्भुतं तदा ।
जहुर्ये जीवितं धीराः परोक्षस्य प्रभोः कृते ॥ ३२४ ॥
शारदादर्शनमिषात्कश्मीरान्संप्रविश्य ते ।
मध्यस्थदेवावसथं संहताः समवेष्ट्रयन् ॥ ३२५ ॥
दिगन्तरस्थे भूपाले प्रविवेक्षूनवेक्ष्य तान् ।
परिहासहरिं चक्रुः पूजकाः पिहिताररिम् ॥ ३२६ ॥
ते रामस्वामिनं प्राप्य राजतं विक्रमोर्जिताः ।
परिहासहरिभ्रान्त्या चक्रुरुत्पाट्य रेणुशः ॥ ३२७ ॥
तिलं तिलं तं कृत्वा च चिक्षिपुर्दिक्षु सर्वतः |
नगरान्निर्गतैः सैन्यैर्हन्यमानाः पदे पदे ॥ ३२८ ।।
श्यामला रक्तसंसिक्तास्तेपतन्निहता भुवि ।
अञ्जनाद्भिदृषत्खण्डा धातुस्यन्दोज्वला इव ॥ ३२९ ॥
तदीयरुधिरासारैः समभूदुज्वलीकृता ।
स्वामिभक्तिरसामान्या धन्या चेयं वसुंधरा ॥ ३३० ॥
वज्राद्वज्रकृतं भयं विरमति श्रीः पद्मरागाद्भवे-
नानाकारमपि प्रशाम्यति विषं गारुत्मतादश्मनः ।
एकैकं क्रियते प्रभावनियमात्कर्मेति रत्नैः परं
पुंरत्नैः पुनरप्रमेयमहिमोन्नद्धैर्न किं साध्यते ॥ ३३१ ॥
१ प्रविविक्षून् इत्युचितम् ।

१२३