सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
राजतरङ्गिणी


तद्धूमिजा वन्धवो मे न वक्ष्यन्ति त्वदागमम्‌ ।
सामात्यान्तःपुरो राजा छद्मनानेन गृह्यते ॥ २८८ ॥
इत्युक्त्वा सोकरोत्तस्य प्रवेशं वालुकार्णवे ।
पक्षे क्षीणे च कटको निस्तोयः समपद्यत ॥ २८९. ॥
तत्राप्यहानि द्वित्राणि वहन्नेवाभवन्रुपः ।
तृष्णार्तं वीक्ष्य सैन्यं च मत्रिणं तमभाषत ॥ २९.० ॥
उक्तकालाधिका यावद्वसरा गमिताः पथि ।
मुमूर्षु तृष्णया सैन्यं तदध्वा रिप्यते कियान्‌ ॥ २९१ ॥
ततो विहस्य सोवादीज्जिगीपो शेषमध्वनः ।
किं प्रुच्छत्यरिराष्ट्रस्य यमराष्ट्रस्य वा भवान्‌ ॥ २९२ ॥
त्वं हि स्वामिहितायैव ससुपेक्ष्य स्वजीवितम्‌ ।
सत्युवक्रं स कटको मया युक्त्या प्रवेशितः ॥ २९३ ॥
नेदं मरूमहीमात्रं भीमोयं वालुकार्णवः ।
नाम्भोत्र लभ्यते क्वापि कस्राता तेद्य भूपते ॥ २९४ ॥
श्रुत्वेति पृतना कृत्स्ना समभूद्वीतसौष्ठवा ।
करकाभ्रंशितफला स्तस्बरोषेव शालिभूः ॥ २९५ ॥
संत्यक्तजीविताशानां भीरूणां क्रन्दितध्वनिम्‌ ।
भुजमुद्यम्य शमयंस्ततो न्रुपतिरव्रवीत्‌ ॥ २९६ ॥
अमात्य तव क्रुत्येन प्रीताः स्वामिहितैषिणः ।
मरावप्यत्र शीतार्ता इव रोमाञ्चिता वयम्‌ ॥ २९७ ॥
अभेद्यसारे मयि तु व्यक्तमेवंविधोपि ते ।
प्रयोगः कुण्ठतां यातो लोहं वज्रमणाविव ॥ २९८ ॥
मणिभ्रमाद्वह्लिकणं गृह्णन्दग्धा इवाङ्गुलिः ।
त्वं मिथ्यावयवोल्लूनानद्य रोचिष्यसि ध्रुवम्‌ ॥ २९९ ॥