पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११९
चतुर्थस्तरङ्गः ।


देवोपि लक्ष्मणस्वामी तथैवाभ्यर्थ्य पार्थिवम्‌ ।
चक्रमर्दिकया चक्रेश्वरपार्श्वे निवेशितः ॥ २७६ ॥
दिग्जये पुरूषः कश्चिध्द्रुत्तप्रत्यग्रनिग्रहः ।
अग्रे न्यक्षिपदात्मानं गजारूढस्य भूभुजः ॥ २७७ ॥
तं कृत्तपाणिघ्राणादिव्रणैः शोणितवार्पिणम्‌ ।
त्रणार्थिनं कारुणिकः स्वोदन्तं पृष्टवान्न्रुपः ॥ २७८ ॥
स तस्मै सिकतासिन्धुसविधस्थस्य भूपतेः ।
प्रख्यातमूचे सचिवमात्मानं हितकारिणम्‌ ॥ २७९ ॥
प्रणतिर्ललितादित्यन्रुपतेः क्रियतामिति ।
हितं कथयतः स्वस्य निग्रहं च ततो न्रुपात्‌ ॥ २८० ॥
प्रतिजज्ञे च भूपेन ततस्तत्स्वामिनिग्रहः।
रूढब्रणोगदंकारै स चाकार्यत सत्कृतैः ॥ २८१ ॥
ततो विहितयात्रं तं स मन्त्रि कृतसत्क्रियः ।
कदाचिदेवमवदव्दिजने जगतीभुजम्‌ ॥ २८२ ॥
एवंविधस्य कायस्य राजन्यत्परिक्षणम्‌ ।
तत्र वैरविशुध्द्याशा विडम्बयति मामियम्‌ ॥ २८२३ ॥
बाष्पैर्जलाञ्जलिं दत्त्वा दुःखाय च सुखाय च।
कृतकृत्यो ध्रुवं जह्यादवमानहतानसून्‌ ॥ २८४ ॥
अपरृत्याधिकं शत्रोरपकारं जयेन्मितम्‌ ।
गम्भीरं प्रतिनद्येव निनादं नदतो गिरिः ॥ २८५ ॥
इतो मासेखिभिर्गम्या भूः प्राप्या त्वरितं कथम्‌ ।
यद्‌ वा प्राप्यते वैरी तदा तत्रैव किं वसेत्‌ ॥ २८६ ॥
मासार्घलङ्घयं पन्थानं तस्मादुपदिशामि ते। ग्रुहीत्वा स जलं गभ्यश्चमूनां किंतु निर्जलः ॥ २८७ ॥