पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११७
चतु्थस्तरङ्गः ।

 
स तमाह स्म विहसन्कर्मेमौ कुरूतो मणी ।
योग्यौ मत्पाणिगावेव किं स्यात्स्वीकरणेन वः ॥ २५३ ॥
सामान्येष्वेव लभते सोत्कर्षं वस्तु संप्रथाम्‌
महत्सु तस्य का शोभा विविधोत्क्रुष्टवस्तुषु ॥ २५७ ॥
प्रस्यन्दनं शशिमणेर्गणयन्ति ताव-
द्यावत्स्थितो जलनिधेः पुलिनैकदेशे ।
स स्वीक्रियेत यदि तेन ततस्तदास्य
स्यन्दः स्फुरन्नपि न तत्सलिले विभाव्यः ॥ २५५ ॥
इत्युक्त्वा विरते तस्मित्राजा सस्मितव्रवीत्‌ ।
संभावयसि किं रत्नमाभ्यामभ्यधिकं मम ॥ २५६ ॥
अतोधिकतरं यद्वा किचित्वं मम पश्यसि ।
तदादाय प्रयच्छेदं निष्क्रयेण मणिद्धयम्‌ ॥ २५७ ॥
ततो महान्प्रारसादोयमित्युक्त्वा चङ्कुणोव्रवीत्‌ ।
स्वायत्ते स्वामिनो रत्ने मह्यमिष्टं तु दीयताम्‌ ॥ २५८ ॥
गजस्कन्धेधिरोप्यैतन्मागधेभ्यो यदाह्रुतम्‌ ।
द्त्वा सुगतबिम्बं तज्जनोयमनुग्रुह्यताम्‌ ॥ २५९ ॥
सलिलोत्तरणोपायो मणी देवेन गृह्यताम्‌ ।
संसारोत्तरणोपायः सुगतो मह्यमर्प्यताम्‌ ॥ २६० ॥
इति तेनार्थितो युत्क्या जिनबिम्बं ददौ नृपः ।
वाग्मिनां कस्य सामर्थ्यं परिपन्थयितुं वचः ॥ २६१ ॥
स्वविहारेथ भगवान्स तेन विनिवेशितः ।
कपिशाभिः सकापाय इव यो भाति कान्तिभिः ॥ ८६
द्रुस्यतेद्यापि कटकैरायसेः परिवेष्टितः ।
गजस्कन्धनिवद्धस्य सूचको यस्य विष्टरः ॥ २६३ ॥
 

१ मगघेभ्यो इति सात्‌ ।