सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

मासं षड्भिर्दिनैरूनं चतस्रश्च समा भुवि ।
स प्राभवद्गुरुद्रोहप्ररोहत्सुकृतात्ययः ॥ १२३ ॥
अथ गूढाभिचारेण विहितायुःक्षयो द्विजैः ।
स भ्रातुः सदृशीं शान्ति प्रपेदे न पुनर्गतिम् ॥ १२४ ॥
यो यं परापकरणाय सृजत्युपायं
तेनैव तस्य नियमेन भवेद्विनाशः ।
धूमं प्रसौति नयनान्ध्यकरं यमग्नि-
र्भूत्वाम्बुदः स शमयेत्सलिलैस्तमेव ॥ १२५ ॥
राजा श्रीललितादित्यः सार्वभौमस्ततोभवत् ।
प्रादेशकेश्वरस्रष्टुर्विधेर्बुद्धेरगोचरः ॥ १२६ ॥
प्रतापांशुच्छटाकूटैः पटवाससधर्मभिः ।
जम्बुद्वीपद्विपेन्द्रस्य येनातन्यत मण्डनम् ॥ १२७ ॥
नयाञ्जलिषु बद्धेषु राजभिर्विजयोद्यमे ।
पार्थिवः पृथुविक्रान्तिर्युधि क्रोधं मुमोच यः ॥ १२८ ॥
विनिःसरजनतया भयाद्गर्भानिवामुचन् ।
द्विषां वसतयो यस्य निशम्यास्कन्ददुन्दुभिम् ॥ १२९ ॥
विलोलतिलकान्तैर्यः सनेत्राम्भोभिराननैः ।
निवापाञ्जलिदानानि द्विषां नारीरकारयत् ॥ १३० ॥
क्षितिं प्रदक्षिणयतो रवेरिव महीपतेः ।
जिगीषोः प्रायशस्तस्य यात्रास्वेव वयो ययौ ॥ १३१ ॥
करं पूर्वदिशो गृह्णन्प्रतापानलसंनिधौ ।
अन्तर्वेद्यां महाराजः स कीयुष्णीषभृद्धभौ ॥ १३२ ॥
कन्यानां यत्र कुञ्जत्वं व्यधागाधिपुरे मरुत् ।
तत्रैव शंसनीयः स पुंसां चक्रे भयस्पृशाम् ॥ १३३ ॥