पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थस्तरङ्गः ।

विभक्तवर्णशोभस्य तस्यासावन्यथा कथम् ।
माहेन्द्रस्येव धनुषो विदधे दृष्टनष्टताम् ॥ १११ ॥
कारयित्वाभिचारं तं निग्रहोग्ररुषं द्विजम् ।
तं यशः शेषतामीशं तारापीडोनुजोनयत् ॥ ११२ ॥
दुष्कर्मदुर्भगान्भोगान्भोक्तुं पापा गुणोन्नतम् ।
मृद्गन्ति कण्टकान्प्राप्तुं करभा इव केतकम् ॥ ११३ ॥
ततः प्रभृति भूपानां राज्येच्छूनां गुरुन्प्रति ।
दुष्टाः प्रवृत्ता राज्येस्मिन्नभिचारादिकाः क्रियाः ॥ ११४ ॥
श्री चन्द्रापीडदेवस्य तत्क्षमित्वमपश्चिमम् ।
संस्मर्यमाणं कुरुते न कस्योत्पुलकं वपुः ॥ ११५ ॥
मुमूर्षुर्यत्स लब्ध्वापि तं कृत्याधायिनं द्विजम् ।
चराकेन्यप्रयुक्तेस्मिन्को दोष इति नावधीत् ॥ ११६ ॥
विस्मृतः स कृतक्ष्माभृत्पङ्किमध्येद्य वेधसा |
दत्त्वा काकपदं नूनं न्यस्तः कलिनृपावलौ ॥ ११७ ॥
अष्टौ वर्षान्साष्टमासाननुगृह्येति मेदिनीम् ।
प्रविवेश वशी स्वर्गमनिशं च सतां मनः ॥ ११८ ॥
१०५
भ्रातृद्रोहास्रसुहृदा प्रतापेन भयावहः ।
उवाह तारापीडः स चण्डः क्ष्मामण्डलीं ततः ॥ ११९ ॥
पूर्णपात्रप्रतिभटं द्विपां लुण्ठयता यशः ।
शिशोः प्रतापस्योत्पत्तौ कवन्धा येन नर्तिताः ॥ १२० ॥
तस्यातिदुष्टचेष्टस्य लक्ष्मीप्तापि सर्वतः ।
अभूदुद्वेगजननी श्मशानाग्नेरिव द्युतिः ॥ १२१ ॥
मन्त्रैः प्रभावसांनिध्यं देवानां क्रियते द्विजैः ।
मत्वेति देवद्वेषी स द्विजानां दण्डमत्यजत् ॥ १२२ ॥

१४