पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४ राजतरङ्गिणी

तथा स्थितायां ब्राह्मण्यां कृतप्रायोपवेशनः ।
स्वयं त्रिभुवनस्वामिपादानुद्दिश्य सोभवत् ॥ ९९ ॥
त्रिरात्रोपोषितं तत्र राजानं रजनीक्षये ।
स्वप्ने स्वप्नोत्तमोवोचत्सत्योक्किं सत्यवाहनः ॥ १०० ॥
ईड युज्यते राजन्सत्यस्यान्वेषणं कलौ ।
निशीथे कस्य सामर्थ्य कर्तुं दिवि विकर्तनम् ॥ १०१ ॥
भवच्छक्त्यनुरोधेन सकृदेतत्प्रवर्त्यते ।
मत्प्रासादाङ्गनेमुष्मिञ्शालिन्चूर्ण विकीर्यताम् ॥ १०२ ॥
प्रदक्षिणं कुर्वतोस्य त्रिरत्र यदि हृश्यते ।
ब्रह्महत्यापादमुद्रा पादमुद्रानुयायिनी ॥ १०३ ॥
तदेष वधको भूत्वा सदृशं दण्डमर्हति ।
रात्रावेष विधिः कार्यो दिने पापहृदर्यमा ॥ १०४ ॥
अथ तत्कारयित्वा स दृष्टदोषे द्विजन्मनि ।
दण्दं दण्डधरश्चक्रे द्विजत्वाद्वधवर्जितम् ॥ १०५ ॥
महीमघोना भर्तृघ्ने तस्मिन्विहितशासने ।
ततो द्विजन्मजाया सा कृताशीरभ्यधादिदम् ॥ १०६ ॥
इयत्यवनिभृत्सर्गे गूढपापानुशासनम् ।
कार्तवीर्यस्य वा दृष्टं तव वा पृथिवीपते ॥ १०७ ॥
दण्डधारे त्वयि क्षमाप क्षितिमेतां प्रशासति ।
को वैरस्नेहयोः पारमनासाद्यावसीदति ॥ १०८ ॥
इत्थं कृतयुगध्येयैर्धर्म्यवृत्तान्तवस्तुभिः ।
स्वल्पोपि राज्यकालोस्य पर्याप्तैः पर्यपूर्यत ॥ १०९ ॥
स्रष्टुर्विष्टरपाथोजसंसर्गेण निरर्गलः ।
निबिडं जडिमा जाने व्यधत्त घियि संनिधिम् ॥ ११० ॥

.