पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३
चतुर्थस्तरङ्गः।


अनसूयो निरुत्सेकः प्रियवाग्गुणवत्सलः ।
पूर्वाभिभाषी निर्लोभो न विद्वेष्यो हि कस्यचित्‌ ॥ ८७ ॥
तस्य तुल्यवया वाल्यात्प्रभृत्यध्ययनेधमः ।
माक्षिकस्वामिवास्तव्यो विप्रः शङ्क्योभिचारवित् ॥ ८८ ॥
गुणदारिद्र्यनिर्निद्रैः क्षुद्रैः कौशलशालिनाम्‌ ।
प्रसिद्धिस्पर्धया वन्ध्यैर्वाध्यन्तेसूययासवः ॥ ८९ ॥
नापुंश्चलेयो दुःशीलो नाद्रोहो नित्यशङ्कितः |
नावाचालो मृषाभाषी नाकायस्थः कृतघ्नधीः ॥ ९० ॥
नादातृगृहजो लुब्धो नानीर्ष्यो नित्यदुःखितः ।
नास्त्रीजितः सर्वहास्यो नावृद्धः स्निग्धभाषितः ॥ ९१ ॥
नानन्यजः पितृद्वेषी नारागी निरपत्रपः।
नाक्षुद्रविद्यः पापीयानिति भूतार्थसंग्रहः ॥ ९२ ॥
                            तिलकम्‌ ॥
इत्युक्तवत्यां बाह्यण्यां तच्छङ्कावसर्ति द्विजम्‌ |
आनीय परिशुध्यस्वेत्यभ्यधाद्वसुधाधिपः ॥ ९२ ॥
भूयो ब्राह्मण्यवादीत्तं ख्यातः खार्खोदविद्यया ।
निःसंभ्रमः स्तम्भयितुं देव दिव्यक्रियामयम्‌ ॥ ९४ ॥
म्लायद्वक्क इवावादीत्ततस्तां मेदिनीपतिः ।
अदृष्टदोषे किं कुर्मो वयमत्राधिकारिणः ॥ ९५ ॥
नान्यस्मिन्नपि दण्डस्य प्रसङ्गोनिश्चितागसि ।
किं पुनर्ब्राह्मणो दण्ड्यो यो दोषेपि वधं विना ॥ ९६ ॥
उक्त्वेति विरते तस्मिन्द्विजजायाव्रवीत्पुनः ।
चतस्रः क्षणदाः क्षीणा राजन्नपि न शस्यते ॥ ९७ ॥
नान्वगां परिणेतारं हन्तुः प्रतिचिकीर्षया ।
तत्राविहितदण्डेसस्मिंस्त्यजाम्यनशनैरसून्‌ ॥ ९८ ॥
 

१ नार्पौश्चलेयो इत्युचितम्‌ ।२ ब्राह्यणे इत्युचितम्‌ ।