पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
राजतरङ्गिणी




अवोचच्चर्मकारस्तं तत्र स व्यञ्चिताञ्जलिः।
राजन्धर्मानुरोधेन परवत्ता तवोचिता ॥ ७५ ॥
श्वविग्रहेनण धर्मेण पाण्डुसूनोः पुरा यथा ।
धार्मिकत्वं तथा तेद्य मयास्पृश्येन वीक्षितम्‌ ॥ ७६ ॥
स्वस्ति तुभ्यं चिरं स्थेया धर्म्या वृत्तान्तपद्धतीः ।
दर्शयन्नीदृशीः शुद्धाः श्रद्धेया धर्मचारिणाम्‌ ॥ ७७ ॥
एवं निष्कल्मपाचारः स चके पावनीं भुवम्‌ ।
राजा त्रिभुवनस्वामिकेशवस्य प्रतिष्टया ॥ ७८ ॥
कृत्यैः प्रकाशदेव्याख्या प्रकाशाकाशकान्तिभिः ।
प्रकाशिकाविहारस्य तत्पत्नी कारयित्र्यभूत् ॥ ७९ ॥
गुरुर्मिहिरदत्ताख्यस्तस्योदात्तगुणोभवत् ।
विश्वंभरस्य गम्भीरस्वामिनाम्नो विधायकः ॥ ८० ॥
सर्वाधिकरणस्थैर्योच्छेत्ता छलितकाभिधः ।
नगराधिकृतस्तस्य च्छलितस्वामिनं व्यधात्‌ ॥ ८१ ॥
कदाचन सभासीनं पृष्टा धर्माधिकारिभिः ।
प्रायोपविष्ठा राजानं ब्राह्मणी काचिद्‌व्रवीत् ॥ ८२ ॥
त्वयि प्रशासति महीमहो गर्हानिबर्हणे ।
सुखसुप्तस्य मे पत्युर्हृतं केनापि जीवितम्‌ ॥ ८२ ॥
एषैव महती लज्जा सदाचारस्य भूपतेः ।
यदकालभवो मृत्युस्तस्य संस्पृशति प्रजाः ॥ ८४ ॥
कलिकालबलात्तच्चेत्त्वादृशैरपि दृश्यते ।
पापात्पापतरेमुष्मिन्दोपे कथमुदास्यते ॥ ८५ ॥
चिन्तयन्त्यपि नावैमि भर्तुः कंचिद्विरोधिनम् ।
निर्दोषस्य हि तस्यासन्सर्वतः शीतला दिशः ॥ ८६ ॥

 

</poem>