राजतरङ्गिणी
शिशुरेवायुपोल्पत्वं दैवज्ञोक्तं विचिन्तयन् ।
राशः सुतो महणाख्यो महणस्वामिनं व्यधात् ॥ ४ ॥
पारेविशोकं कोटाद्रौ प्रदत्तप्रतिपत्तिना ।
अदीयत द्विजेन्द्रेभ्यश्चन्द्रग्रामः क्षमाभुजा ॥ ५ ॥
श्रीनगर्या प्रतिष्ठाप्य दुर्लभस्वामिनं हरिम् ।
पशिता स वर्षाणां क्षमावृषास्तमुपाययौ ॥ ६ ॥
अनङ्गदेव्यां संभूतस्तस्य दुर्लभकः सुतः ।
शशास वासवसमस्ततो वसुमती कृती ॥ ७ ॥
मातामहस्य यो मात्रा दौहित्रस्तनयीकृतः ।
प्रतापादित्य इत्याख्यां तत्कुलानुगुणां दधे ॥ ८ ॥
औडेनैडविडात्प्राप्तश्रिया यन्मत्रिणा कृताः ।
अग्रहारा हनुमता पुण्यानुमतसंपदा ॥ ९ ॥
प्रतापतापितारातिः प्रतापपुरपत्तनम् ।
मघवन्नगरस्पधि दीर्घबाहुर्व्यधत्त सः ॥ १० ॥
नानादिगन्तरायाततत्तत्क्रयिकसंकुले ।
नोणाभिधोवसत्तस्य देशे रौहीतको वणिक् ॥ ११ ॥
रौहीतदेशे जातानां निवेशाय द्विजन्मनाम् ।
महागुणो नोणमठं पुण्यज्येष्ठं चकार सः ॥ १२ ॥
स जातु राजभवने राज्ञा प्रीत्या निमंत्रितः ।
अर्चितोभवदेकाहमुपचारैर्नृपोचितैः ॥ १३ ॥
प्रातः सुखासिकां प्रेम्णा पृष्टोथ पृथिवीभुजा ।
शीर्षव्यथामकथयत्प्रजातां दीपकज्जलैः ॥ १४ ॥
ततः क्रमेण नृपतिस्तेन जातु कृतार्थनः ।
वसंस्तदास्पदेद्राक्षीत्क्षपायां मणिदीपकान् ॥ १५ ॥