सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थस्तरङ्गः ।

विलासित्वेन लक्ष्म्या च तादृश्या तस्य विस्मितः ।
अथ द्वित्राण्यहान्यासीत्तत्रैव स कृतार्हणः ॥ १६ ॥
एकदा तेन तत्कान्ता व्यलोकि ललिताकृतिः ।
श्रीनरेन्द्रप्रभा नाम हम्यै हिमकररानना ॥ १७ ॥
उरोजपूर्णकुम्भाङ्का सदूर्वाहितविभ्रमा ।
मूर्ति मन्मङ्गलमिव स्मरस्य च गृहस्य च ॥ १८ ॥
हर्म्यस्य निर्जनतया स निःशङ्कविहारिणीम् ।
तां विलोक्यानवद्याङ्गीमभिलाषेण पस्पृशे ॥ १९ ॥
सापि दर्शितमालीभिः किंचित्साचीकृतानना ।
अपश्यत्काश्यपीकान्तं श्रोत्रविश्रान्तया दृशा ॥ २० ॥
प्राग्जन्मप्रेमबन्धाद्वा निदेशाद्वा मनोभुवः ।
सपक्षपातं सा तस्य दृष्ट्यैव विधे मनः ॥ २१ ॥
क्षणादलब्धस्पर्शोपि तां सौभाग्यसुधामयीम् ।
मजानमपि संस्पृश्य स्थितामिव विवेद सः ॥ २२ ॥
हर्म्यस्तम्भच्छन्नगात्री क्षणं भूत्वा जगाम सा ।
व्यावर्त्य वक्रं पश्यन्ती पार्थिवं तं मुहुर्मुहुः ॥ २३ ॥
गृहीत हृदयस्तन्व्यास्तावतैव महीपतिः ।
स चिन्ताजिह्मनयनो राजधानीं शनैर्ययौ ॥ २४ ॥
तत्र तस्य तदाकारध्यानावहितचक्षुषः
सममन्तः पुरप्रीत्या प्रपेदे तानवं तनुः ॥ २५ ॥
अचिन्तयत्स धिक्कष्टं रूढोयमशुभावहः ।
अस्मिन्मे मानसोद्याने रागनामा विपद्रुमः ॥ २६ ॥
अहो नु सुभगा रागवृत्तिश्चित्तं विजित्य या ।
विवेकादीन्व्यधाद्दूरे सुहृदः परिपन्थकान् ॥ २७ ॥

१३ 2