पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

20 राजतरङ्गिणी

द्वेषो नामैष दुर्धर्षो जितो येन विवेकिना |
क्षणार्धेनैव रागस्य तेन नामापि नाशितम् ॥ ५२० ॥
वीक्ष्यैतद्दिव्यया दृष्ट्या रागिणां वाच्यमौषधम् ।
ईर्ष्या जेया ततो रागः स्वयमाशाः पलायते ॥ ५२१ ॥
इति ध्यात्वालिखद्वर्णान्खङ्घस्यांशुकपल्लवे ।
वध्योपि न हतो यत्त्वं स्मर्तव्यं तत्तवेत्यसौ ॥ ५२२ ॥
जनैरलक्ष्यमाणेथ याते दुर्लभवर्धने ।
त्यक्तनिद्रः स मन्त्री तद्दृष्ट्वा वर्णानवाचयत् ॥ ५२३ ॥
दाक्षिण्यात्प्राणदस्यास्य खङ्घः स मनसा तदा ।
विसस्मारानङ्गलेखां दध्यौ तु प्रत्युपक्रियाम् ॥ ५२४ ॥
तस्योपकर्तुरुचितं प्रतिकारमिच्छो-
श्चिन्ताविशन्न तु मनः स्मरबाणपङ्किः ।
दृग्गोचरे परिचयप्रणयं प्रपेदे
निर्निद्रता न तु कदाचन राजपुत्री ॥ ५२५ ॥
भूत्वा सप्तत्रिंशतिमब्दान्स चतुर्भि-
र्मासैर्वन्ध्यां मूर्धनि रत्नं नृपतीनाम् ।
तस्मिन्काले लोकमवापोज्ज्वलकृत्यो
बालादित्यो बालशशाङ्काङ्कितमौलेः ॥ ५२६ ॥
पूर्व विपन्नतनयेभिजनस्य शेषे
गोनन्द संततिरजायत तत्र शान्ते ।
प्राग्दन्तिभुग्ननलिनाथ हठप्रविष्ट
तोयौघपाटितबिसा नलिनीव दीना ॥ ५२७ ॥
अथ शिथिलितमुख्यामात्यवैमत्यविघ्नः
कनकघटविमुक्तैः पावनं तीर्थतोयैः ।

!