पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ राजतरङ्गिणी

सैन्यानां संकटे त्राणमश्रान्तिरविकत्थनः ।
अभूत्क्लेशसहो वीरो नान्यो भिक्षाचरात्क्वचित् ॥ १०१७ ॥
योधानां सौस्सले सैन्ये विद्रद्वेषु न कश्चन ।
त्राणं बभूव तेनैते बहवो बहुधा हताः ॥ १०१८ ॥
नवेषु डामरानीकाः केचिद्भङ्गेषु सैनिकाः ।
भिक्षाचरगजेन्द्रेण कलभा इव पालिताः ॥ १०१९ ॥
नान्यस्योत्थानशीलत्वं दृष्टं पृथ्वीहरात्तदा ।
स्वयं यो भैक्षवे द्वारे जजागार प्रतिक्षपम् ॥ १०२० ॥
ततः प्रभृत्यभूगोता पुरः पञ्चाञ्च सर्वदा ।
विश्वेदेव इव श्राद्धे युद्धे भिक्षुर्महाभटः ॥ १०२१ ॥
आहवे साहसं कुर्वन्सर्वतः सोभ्यधान्निजान् ।
एवमस्खलितस्थैर्यमुपपत्तिमसंत्यजन् ॥ १०२२ ॥
न मे राज्याय यत्नोयं पर्याप्तं दुर्यशः पुनः ।
कृत्ये प्रसक्तं पूर्वेषां व्यवसायं व्यपोहितुम् ॥ १०२३ ॥
अनाथा इव नाथा विशां व्यापादनक्षणे ।
ज्ञात्वा नष्टं कुलं नाथवद्भ्यो नूनं स्पृहां दधुः ॥ १०२४ ॥
इति मत्वा सोढकष्टश्चेष्टे सुदृढनिश्चयः ।
दूयमानोस्मि दायाददुःखदायी दिने दिने ॥ १०२५ ।।
नास्त्येवाप्राप्तकालस्य विपत्तिरिति जानतः ।
कस्य साहसवैमुख्यमुत्पद्येत यशोर्थिनः ॥ १०२६ ॥
किं कार्यगतिकौटिल्यैरुक्तैस्तान्यथवा कथम् ।
न वदामः प्रतिज्ञाय स्वयमाषेध्वनि स्थितिम् ॥ १०२७ ॥
सोत्कर्षपौरुषाद्भिक्षोरशङ्किषत डामराः ।
ततो दायादविच्छेदं नास्याकृषत जातुचित् ॥ १०२८ ॥

१ डामरानीकात् इति स्यात् ।