उपभोगैः सपत्नस्य तत्कालनिसृतस्य सा ।
अङ्किता मानिनस्तस्य वेश्यवोद्वेगदाभवत् ॥ ९५८ ॥
भिक्षु: संत्यज्य कश्मीरान्सह पृथ्वीहरादिभिः |
ग्रामं पुष्पाणनाडाख्यं सोमपालाश्रयं ययौ ॥ ९५९ ॥
प्रस्थिते डामरान्सर्वान्राजा स्वीकृत्य तु व्यधात् ।
खेर्यां वट्टात्मजं मल्लं हर्षमिन्त्रं कम्पने ॥ ९६० ॥
पूर्वापकारं स्मरतो देशकालनपेक्षिण: ।
पूर्वविद्वेषिणस्तस्य न कृपामं पतिपेदिरे ॥ ९६१ ॥
भिक्षुसंपर्कजं गन्धमपि सोढुकमशक्नुवन् ।
भृत्येभ्य: खण्डश: कृत्वा द्वेषात्सिंहासनं ददौ ॥ ९६२ ॥
अनयोपार्जितां त्यत्कुमनीशा डामराः श्रियम् ।
समन्योश्च नृपाभ्दीता नात्यजन्विल्पवोद्यमम् ॥ ९६३ ॥
भिक्षुस्तु राज्यविभ्रष्टः सुहृदो विषये वसन् ।
उत्साहं सोमपालस्य दानमानैः पुनयेयौ ॥ ९६४ ॥
बिम्बः साहायकप्रार्थी विस्सयस्यान्तिकं गतः ।
तस्सिन्विरोधिभिर्बद्वै' रणे धीरस्तनुं जहौ ॥ ९६५ ॥
भिक्षाचरो बिम्बशून्यो भजन्दुर्नयपात्रताम् ।
अनैषीदवरुद्धात्वं तत्प्रियां तां गतत्रपः ॥ ९६६ ॥
निपत्य स्वल्पसैन्योपि ततः शूरपुरे बली ।
जित्वा पृथ्वीहरो वट्टात्मजं व्यद्रावयद्रणात् ॥ २८६७ ॥
तस्मिन्पलायिते भिक्षुं पुनरानीय सोविशत् ।
भुवं मडवराज्यानां दस्यूनां स्वचिकीर्षया ॥ ९६८ ॥
तत्रत्यैर्मङ्खजय्यादद्यैर्डामरै: स्वीकृतै: समम् ।
जगाम विजयक्षेत्रं विजेतुं कम्पनापतिम् ॥ ९६९ ॥
१ बद्धो इति स्यात् ।