पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

तं महाव्यसने वासः स्वर्णरत्नादिवर्षिणम् ।
नाभ्यनन्दन्गृहीतार्था निनिन्दुः शस्त्रिणः परम् ॥ ८०३ ॥
नष्टोयं नैष अवितेत्यभीतेर्जल्पतो जनात् ।
वचो रोगी भिषक्त्यक्त इव शृण्वन्स विव्यथे ॥ ८०४ ॥
अप्यग्रोपस्थितं किंचित्तदादेशेन ढौकयन् ।
सविलासं सगर्वे च तमैक्षिष्टानुगव्रजः ॥ ८०५ ॥
सोन्य एवाभवत्तस्मिन्क्षणे साहसिकोप्यहो ।
स्वगृहादपि निर्गन्तुं नाशकद्यद्भयाकुलः ॥ ८०६ ॥
यावदैच्छन्संघभेदाञ्चलितुं डामरव्रजाः ।
स्वैरेव शस्त्रिभिस्तावन्निन्ये भूभृद्धिसूत्रताम् ॥ ८०७ ॥
ते कृष्टशस्त्रा द्वाराणि रुन्धन्तो नृपमन्दिरे ।
प्रवासवित्ते लब्धव्ये प्रायं चक्रुः पदे पदे ॥ ८०८ ॥
ददखनं धनेशश्रीर्देयादप्यधिकं नृपः ।
तेषामभिमतो नाभूदवमानाभिलाषिणाम् ॥ ८०९ ॥
मर्तु चिचलिषुस्तीर्थमृणिकैरिव सामयः ।

निखिलैर्देयं दापितोथ गतत्रपैः ॥ ८१० ॥
स्थानपालैरपि प्रायकृद्भिराक्रम्य दापितः ।
धनं सुवर्णभाण्डादि चूर्णकृत्य विश्टङ्खलैः ॥ ८११ ॥
सवृद्धबालं नगरं ततः क्षुभ्यत्क्षणे क्षणे ।
सोभूदब्धिमिवोद्वृत्तं न संस्थापयितुं क्षमः ॥ ८१२ ॥
एकदा प्रातरेवान्यै रुद्धद्वारः स शस्त्रिभिः ।
सर्वतः क्षोभमागच्छन्नगरं स व्यलोकयत् ॥ ८१३ ॥
ततः क्षोभं शमयितुं जनकं नगराधिपम् ।
पुरभ्रमार्थमादिश्य चलितुं क्षणमैक्षत ॥ ८१४ ॥