पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९ अष्टमस्तरङ्गः ।

मातरं जयकाव्यस्य सिफिन्नाग्रामवासिनः ।
विच्छिन्नकर्णघ्राणां च कृत्वाभ्यर्ण व्यसर्जयत् ॥ ६७८ ॥
सपुत्रं सूर्यकं शूलेधिरोप्य नगरेपरान् ।
भूरीन्वध्यानवध्यांश्च क्रोधाकान्तो न्यपातयत् ॥ ६७९ ॥
कालस्येवोल्बणस्याथ तस्य सर्वेपि शङ्किताः ।
आभ्यन्तराञ्च बाह्याश्च विरागं प्रतिपेदिरे ॥ ६८० ॥
येनैवानीतिमार्गेण हारितं हर्षभूभुजा ।
निन्दन्नप्यादधे तं स राज्ये व्यवहरन्स्वयम् ॥ ६८१ ॥
प्रविष्टानां युद्धे गहनकविकर्मप्रणयिनां
प्रसक्तानां द्यूते नरपतिधुरायां विहरताम् ।
तटस्थत्वे वक्तुं स्खलितमसकृत्सोर्हति परं
प्रयोगे वैकल्यं स्वयमविकलो यो न भजते ॥ ६८२ ॥
तीव्रप्रयत्नो नृपतिस्तत्रापि विहितोद्यमः ।
निनाय मल्लकोष्टादीन्किचिन्मन्दप्रतापताम् ॥ ६८३ ॥
अथानिनाय विजयो विषलाटाध्वना शनैः ।
नप्तारं हर्षदेवस्य तं भिक्षाचरमन्तिकम् ॥ ६८४ ॥
विविक्षन्देवसरसं कम्पनापतिना ततः ।
विद्राव्यमाणः श्वभ्राग्रात्प्रधावन्सोपतत्क्षितौ ॥ ६८५ ॥
परिज्ञाय हतस्याथ स तस्य विजयी शिरः ।
विससर्जान्तिकं राज्ञः फलं जयतरोरिव ॥ ६८६ ॥
तदप्यत्यद्भुतं कर्म भजन्भूभृत्कृतघ्नताम् ।
न तस्य तुष्टस्तुष्टाव न चकार च सत्क्रियाम् ॥ ६८७ ।।
अवजानञ्जघानामुं शुभ्राख्यः कम्पनापतिः ।
तत्र कस्मात्तवोत्सेक इति तं संदिदेश च ॥ ६८८ ॥