पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

तेन प्रधाननाशेन ततो भिक्षाचरो ययौ ।
अकिंचित्करतां मेघ इवावग्रहवारितः ॥ ५५१ ॥
आसमत्यां प्रयातायां क्षीणे पाथेयकाञ्चने ।
श्वशुरोपि ययौ तस्य शनैर्मन्दोपचारिताम् ॥ ५५२ ॥
चतुष्पञ्चानि वर्षाणि तिष्ठञ्जासटमन्दिरे ।
ग्रासाच्छादनमात्रं स ततः क्लेशात्समासदत् ॥ ५५३ ॥
ठक्कुरो देङ्गपालोथ चन्द्रभागातटाश्रयः ।
दत्त्वा सुतां बप्पिकाख्यां तं निनाय निजान्तिकम् ॥५५४॥
प्राप्तसौख्यो वसंस्तत्र कंचित्कालं भयोज्झितः ।
स राजबीजी दैन्येन शैशवेन च तत्यजे ॥ ५५५ ।
तदन्तरे साहसिकः प्रासः साहसिरुन्मदः ।
गतागतानि कुर्वाणः संरम्भमनयन्नृपम् ॥ ५५६ ॥
स सिद्धपथमार्गेण विविक्षुर्विप्लवोन्मुखः ।
स्वैरेव भृत्यैर्भूभर्तुर्वद्धा पापैः समर्पितः ॥ ५५७ ॥
तत्रोत्पिञ्जे परं सत्त्वं सज्जपालस्य पप्रथे ।
खिन्नोपि द्रोहविमुखो यत्स देशान्तरं ययौ ॥ ५५८ ॥
तस्मिञ्शूरे कुलीने च किं वाच्यं स दिगन्तरे ।
शौर्येणैव यशोराजः पप्रथे यत्तदद्भुतम् ॥ ५५९ ॥
अथ राजा निवार्याद्यान्सहेलादीन्महत्तमान् ।
सर्वाधिकारे विद्धे कायस्थं गौरकाभिधम् ॥ ५६० ॥
स तापसस्य संबन्धी कस्यचिद्विजयेश्वरे |
सेवया लोहरस्थस्य तस्य वाल्लुभ्यमाययौ ॥ ५६१ ॥
शमिते पूर्वकायस्थवर्गे तेन ततः क्रमात् ।
नीतः सर्वाधिकारित्वं सोन्यामेव स्थिति व्यधात् ॥ ५६२ ॥