पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमस्तरङ्ः 1 ३


तस्यार्थग्रूध्नोरुत्पादो भूयानास्ते स्म संपदाम्‌ ।
त्यागो विषयकालादिनैयत्या तु मितोभवत्‌ ॥ ४९२ ॥
नब्श्वावकर्माश्वबाहुल्यप्रिये तस्मिन्दरिद्रताम्‌ ।
तत्यज्जुः कारवो वाजिविक्रेतारश्च दैशिका: ॥ ४९२ ॥
दुःसहव्यसनोप्तत्तौ जिगीषोः प्रशमैषिण: ।
तस्यासीद परित्याज्यं न किचिंद्धसुवार्षिण: ॥ ४९४७ ॥
तस्येन्द्रद्वादशी भूरिपरार्ध्योशुकदायिन: ।
यथा न्रुपेस्य शुशुभे तथा नान्यस्य कस्यचित्‌ ॥ ७९५ ॥
यथा प्रागुश्चलो राजा सुप्रापः प्रियसेवक: ।
स तथा सेवकैरासीद्भूम्ना दुर्लभदर्शन: ॥ ७९६ ॥
नोच्चलादपरस्याह्यसनं हयवाहने |
नान्यस्य न्रुपाद्दासक्ष्यं तत्र च पप्रथे ॥ ९९७ ॥
शममुत्पन्नमुत्पन्नं निन्ये दुर्भिक्षमुचल: ।
राज्ये सुस्सलदेवस्य न तस्स्वप्रेप्यद्रुश्यत॥ ७९८ ॥
किमन्यदखिलै: सोभुदग्रजादधिको गुणैः ।
त्यक्त्वात्यागार्थनैस्प्रुह्यसुप्रापत्वानि केवलम्‌ ॥ ४९९ ॥
औश्चले: पालको गर्गो यं राज्ये कर्तुमैहत ।
सहस्रमङलस्तेन निरवास्यत सक्रुधा ॥ ५०० ॥
तस्मिन्भद्रावकाशस्थे प्रासनामा तदात्मजः ।
काञ्चनोत्कोचदश्चके डामरै: सह चाक्रिकम्‌ ॥ ५०१ ॥
असंत्यजन्नुच्चलजं पितृव्येणार्थितं शिशुम्।

प्रसङ्गे तत्र गर्गोपि प्रातिकूल्यमदर्शयत् ॥ ५०२ ॥
प्रहितानां नरेन्द्रेण त्रुणानामिव शस्त्रिणाम् ।
गर्गदावाग्निदग्धानां निःसंख्यानामभूरक्षयः ॥ ५०३ ॥