पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
अ्टमस्तरङ्गः ।

लोको येष्वद्य केषांचित्तत्त्वमालोक्य सस्मितः ।
मिक्षामप्यटितुं जाने नैष जानाति योग्यताम्‌ ॥ ३७२ ॥
राज्ञ्यां श्वेताभिघानायां मल्लराजस्य ये सुताः 1
सल्हणाद्यास्त्रयोभूवन्मघ्यमे प्राक्क्षयं गते ॥ ३७२ ॥
हन्तुं ज्येष्ठकनिष्ठौ दौ शेषौ सल्हणलोठनौ ।
अन्विष्टौ शङ्खराजेन भयान्नवमठं गतौ ॥ ३७४ ॥
निर्लज्जैर्निहतान्द्रोग्धृन्विहाय मिलितैः पुनः ।
तव्र्यश्वारोहसचिवैरानीतः कृतचाक्रिकैः ॥ ३७५ ॥
द्युष्ट्वा राज्यार्हमप्राप्य कंचिज्यायास्तयोस्तदा ।
गर्गेण राज्ये संरम्भादभ्यषिच्यत सह्वणः ॥ ३७६ ॥
हा धिकतुर्णो यामानामन्तरे नृपतित्रयी ।
अहस्त्रियामे तत्रासीदुद्युश्या या पुरुषायुषैः ॥ ३७७ ॥
ये सायमुच्चलनृपं प्राण्हे रड्ड्ं सिषेविरे ।
मध्यान्हे सह्लणं प्रापुर्द्दाष्टास्ये राजसेवकाः ॥ ३७८ ॥
अथ लोहरकोट्टस्थः सार्धेन्हि गलिति नृपः ।
सुस्सलो भ्रातृमरणं श्रुत्वा तूद्भ्रान्तमानसः ॥ ३७९. ॥
गर्गेण प्रहितो दूतः स क्रन्दन्स्वं क्षपन्क्षतौ ।
ततस्तं वीतसंदेहं चकारार्तप्रलापिनम्‌ ॥ ३८० ॥
आद्यात्सल्हणवृत्तान्तपर्यन्तां नाशृणोत्कथाम् ।
गर्गदूताद्भ्रतृवधं स्वस्याह्वानं च केवलम्‌ ॥ ३८१ ॥
अश्रद्दघानस्तं शीघ्रमारिच्छेदं सुदुष्करम्‌ ।
तदाह्वानाय गर्गे यं प्रहिणोत्तं चलन्ग्गृहात् ॥ ३८२ ॥
आक्रन्दमुखरो भूत्वा तां रात्रिमरुणोदये ।
कर्श्मीराभिमुखो यात्रामसंभृतबलोप्यदात्‌ ॥ ३८३ ॥

१ श्रुत्वाभृद्धान्तमानसः इत्युचितम्‌ ।