पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
राजतरङ्गिणी

अथ सिंहासनस्यान्त: कार्यान्ते त्यक्त्तविग्रह:
गर्गः प्रक्षालितामर्षश्चक्रन्द्‌ स्वामिनं चिरम्‌ ॥ ३६१ ॥
तस्मिन्ऱूदति सर्वोपि पौरलोको भयोज्झित:
संप्राप्तावसरो भूपं व्यलापील्लोकवत्सलम्‌ ॥ ३६२ ॥
कारुण्योत्पत्तये दत्त्वा कोशं जीवितकामया ।
जयमत्या तदावादि गर्ग: कपटशीलया ॥ ३६३ ॥
कुरु मे संविदं भ्रातरिति सत्त्वमयस्तु सः ।
तत्प्रक्रियावचो ज्ञात्वा चितिं तस्या अकल्पयत्‌ ॥ ३६४ ॥
चिकुरनिचये यत्कौटिल्यं विलोचनयोश्च या
तरलतरता यत्काठिन्यं तथा कुचकुम्भयोः ।
वसति ह्रुदि तद्यासां पिण्डीभवन्ननु ता इमा
गहनहृदया विज्ञायन्ते न कैश्चन योषितः ॥ ३६५ ॥
दौ:शील्यमप्याचरन्त्यो घातयन्त्योपि वल्लभान् ।
हेलया प्रविशन्त्यन्गिं न स्त्रीषु प्रत्ययः क्वचित्‌ ॥ ३६६ ॥
युग्याधिरूढा सा यान्ती यावन्मार्गे व्यलम्बत ।
अग्रतो विज्जला तावन्निर्गत्य प्रविशश्चिताम् ॥ ३६७ ॥
अथ तस्याश्चितारोहं कुर्वत्या भूषणार्थिभिः ।
लुण्ठकैर्लुव्यमानाया व्यथा गात्रेषु पप्रथे ॥ ३६८ ॥
सछन्त्रचामरे राज्ञ्यौ दह्यमाने विलोकयन्‌ ।
लोकः सर्वोपि साक्रन्दो दग्धदृष्टिरिवाभवत्‌ ॥ ३६९ ॥
औचित्यं तेन च तदा निन्येत्यन्तपवित्रताम् ।
सर्वैर्यदर्थ्यमानोपि नोपाविक्षन्नृपासने ॥ ३७० ॥
सुतमुश्चलदेवस्य वालमङ्के निधित्सता ।
राज्येभिषेक्तुं ते केचित्तेनान्वैष्यन्त यन्तत: ॥ ३७१ ॥