पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
अष्टमस्तरङ्गः

<poem>पलाय्य प्रययुः क्वापि सड्डुं हंसरथादयः ।
मरणाभ्यधिकां कंचित्कालं सोढुं विपह्यथाम् ॥ ३५१ ॥
द्यप्यन्पराजितं गंर्गं नष्टे तदनुजे विदन्‌ ।
<poem>भोगसेनोथ तां वार्तामशृनणोत्प्रलयोपमाम् ॥ ३५२ ॥
व्यावृत्य प्रत्यवस्थातुकामः पश्यन्पलायिन: ।
योधान्स्वैः सहितः कैश्चित्ततः क्वापि भयादगात्‌ ॥ ३५३ ॥
इत्त्थ्ं निहतविध्वस्तनायका द्रोग्धृ संहतिः ।
स्वदोर्मात्रसहायेन गर्गचन्द्रेण सा कृता ॥ ३५४ ॥
सत्वं साहससिध्धि च नेतिहासेष्वपि क्वचित्‌ ।
अश्रौषं ताद्यशं याध्यक्तस्यास्ते स्म प्रतापिनः ॥ ३५५ ॥
निशां प्रहरमह्नश्च राज्यं कृत्वा स लब्धवान् ।
द्रोह्वकृछ्रं खराजाख्यां गतिं कुकृतिनामगात्‌ ॥ ३५६ ॥
यशस्करकुले जन्म द्रोग्घृभिस्तै: प्रमाणितम्‌ ।
क्षणभङ्गयभजद्राज्यं यस्माद्वर्णटदेववत्‌ ॥ ३५७ ॥
दावोद्विपनकूटयन्रघटनैः सिंहादिसंहारिणो
यान्त्याकस्मिकगनण्डशैलपतनैरन्तं किराता वने ।
एकेनैव ननु प्रधावति जनः सर्वोपि मृत्यो: पथा
हन्ताहं निहतोयमेष तु मितं कालं विभेदग्रहः ॥ ३५८ ॥
स्वोद्वाहे ललनौघमङ्गलरवो यैर्हर्षुलै: श्रूयते
दीनैस्तैर्दयिताविलाप उदयन्नाकर्ण्यतेन्तेक्षणे ।
ह्वोपि घ्नन्नाहितं प्रहृष्यति परः स्वं घ्नन्तमन्ते मुदो-
द्धुत्तं सोप्यवलोकयत्यहह धिङमोहोयमान्ध्यावहः ॥ ३५९. ॥
सायं विचिन्तितो रात्रो फलितोऽन्यत्र वासरे ।
दुर्विपाकप्रदाताभूद्रोग्घृणां साहसद्रुमः ॥ ३६० ॥

९ योपि इति स्यात्