पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टम स्तरङ्गः ।

भुक्तोत्तरं स्थिते राज्ञि ते बाह्ये मण्डपे स्थिताः ।
सरोषो नृप इत्युक्त्वा सेवकोत्सारणं व्यधुः ॥ ३०५ ॥
राजा च विजलावेश्म यियासुर्मण्डपान्तरात् ।
दीपिकाभिः कृतालोको निर्ययौ मदनालसः ॥ ३०६ ।।
मध्यमं मण्डपं तस्मिन्प्राप्ते स्वल्पैः सहानुगैः ।
तत्त्यक्तं मण्डपं सड्डो रुवान्यानरुणज्जनान् ॥ ३०७ ॥
अन्यैरप्यग्रिमे द्वारे निरुद्धे सर्व एव ते ।
जिघांसवः समुत्थाय नृपतिं पर्यवारयन् ॥ ३०८ ॥
विज्ञप्तिदम्भादेकेन रुद्धमग्रे निषेदुषा ।
तं द्विजो दिन्नजस्तेजः शख्या कृष्टकचोभिनत् ॥ ३०९ ॥
ततः काञ्चनगौराणि तस्याङ्गान्यसिधेनवः ।
बहुयः सुमेरुशृङ्गाणि महोरग्य इवाविशन् ॥ ३१० ॥
स द्रोहो द्रोह इत्युक्त्वा केशान्कृष्टान्विमोचयन् ।
क्रीडाशख्याः कपां रुखमुष्टिं दन्तैर्व्यपाटयत् ॥ ३११ ॥
सुजनाकरनामा हि भृत्यः कट्टारकं वहन् ।
तस्यान्तिकात्पलायिष्ट प्रहरत्सु विरोधिषु ॥ ३१२ ॥
अतो बालोचितां लघ्वीं क्षुरिकां स चकर्ष ताम् ।
मुष्टावर्गलिता कोशात्सा कृच्छ्रेण विनिर्ययौ ॥ ३१३ ॥
निर्यातात्रः शत्रुभिस्तैस्त्यक्तकेशो बबन्ध तम् ।
धम्मिल्लमथ तां शस्त्रीं जानुद्वन्द्वान्तरर्पयन् ॥ ३१४ ॥
नदित्वा प्रहरंस्तेजंस्तादृग्वीयपि सोभवत् ।
येन क्षितौ निपतितः सर्वमर्मस्विवाहतः ॥ ३१५ ॥
अभिनञ्च ततो रडुं प्रहरन्तं च पृष्ठतः ।
नदुन्सिंह इव व्यड्डुं परिवृत्य व्यदारयत् ॥ ३१६ ॥

२७