पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ राजतरङ्गिणी

न स्फुरन्न च संमीलन्न वा सुप्त इवानिशम् ।
तेषां चेतसि संकल्पस्तदाप्रभृति सोभवत् ॥ २६९ ॥
असुस्थिरादरेणाथ शनकैः पृथिवीभुजा ।
निन्यिरे मध्यमां वृत्तिं राजस्थानान्निवार्य ते ॥ २७० ॥
प्रकृत्या रूक्षवाग्राजा सर्वेषामेव सर्वदा ।
तेषामप्यकरोदत्रान्तरे मर्मस्पृशः कथाः ॥ २७१ ॥
ते राज्ये हर्षभूभर्तुः पितरि प्रमयं गते ।
मातुस्तारुण्यमत्ताया विधवाया गृहेवसन् ॥ २७२ ॥
तैर्मद्यासत्तको नाम शस्त्रभृत्प्रातिवेश्मिकः ।
सुहृद्धतोथ विश्वस्तो जननीजारशङ्कया ॥ २७३ ॥
असतीमपि किं नैते न्यगृहन्निति भूपतिः ।
विचार्य कोपात्तन्मातुर्नासाच्छेदमकारयत् ॥ २७४ ॥
तां कथां स नृपस्तेषां परोक्षमुदघोषयत् ।
व पुत्राश्छिन्ननासाया वदन्नित्यन्वियेष च ॥ २७५ ॥
बृहद्गञ्जादिगञ्जेशं कृत्वा कार्यान्यवारयत् ।
स कायस्थकृतान्तत्वं भजन्सडुमपि प्रभुः ॥ २७६ ॥
पीडितस्तेन रौद्रेण निजोथ गणनापतिः ।
कोशोत्पत्त्यपहर्तारं तं नृपाय न्यवेदयत् ॥ २७७ ॥
प्रवेशभागिकपदे हृते राज्ञा रुषा ततः ।
स क्रूरो रडुच्छुड्डादीन्यैरयत्पूर्वचिन्तिते ॥ २७८ ॥
जिघांसवस्ते नृपतिं प्रसङ्गापेक्षिणः परैः ।
समगंसत दुष्प्रज्ञैरथ हंसरथादिभिः ॥ २७९ ॥
प्रजिहीर्षुभिरुर्वीशं पतिको रौः समेत्य तैः 1
चतुष्पञ्चानि वर्षाणि नावाप्यवसरः क्वचित् ॥ २८० ॥