पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
राजतरङ्गिणी

 


प्रसादै:प्रहितैन महाधै: श्लाध्यसंपदा ।
महान्तोपि दिगन्तेषु पार्थिवा विस्मयं ययुः ॥ २४५ ॥
भर्तृप्रसादधिगतां श्रियां नेतुं परार्ध्यताम्‌ ।
विहारं समठं देवी जयमत्यपि निर्ममे ॥ २४६ ॥
केषांचित्पूर्वषुण्यानां विरहेण महीभुजः ।
हताभीष्टाभिधानोभूनठ नवमठाख्यया ॥ २४७ ॥
सुल्लां स्वसारमुदिदय परस्मिन्स्थाण्डिरे पितुः ।
विहारोपि कृतस्तेन नोचितां ख्यातिमाययौ ॥ २४८ ॥
मुत्योमैस्तकपातित्वं तस्याकलयत: कि ।
न निष्ठां स्वप्रतिष्ठाखु संप्रपेदे व्ययस्थितिः ॥ २४९. ॥
कदाचिक्कमराज्यस्थो द्वघरुमर्चि स्वयंभुवम् ।
ययौ ब्हैणचक्राख्यं गिरिग्रामं स भूपतिः ॥ २५० ॥
तं कमस्बङेश्वरग्रामाध्वना यान्तमवेष्टयन्‌ ।
अकस्मादेत्य त्रत्याश्चोराश्चण्डाखद्ासििणः ॥ २५१ ॥
प्रजिहिर्षुभिरप्याशु तस्मिन्नत्यल्प्सैनिके ।
न तैः प्रहतमुद्रोजोवष्टम्भस्तम्भितायुधै: ॥ २५२ ॥
अथ हारितमार्गा: स गहने गिरिगह्वरे ।
भ्रमन्नल्पानुयाय्येकां क्षणदामत्यवाहयत् ॥ २५३ ॥
उच्चचार क्षणे तस्मिन्स्कन्धावारेषु दुःखहा ।
नास्ति राजेति दुवौर्ता सर्वतः क्षोभकरिणि ॥ २५४ ॥
कटकान्निःसृतात्यल्पा वाल्येव गिरिगहरात्‌ ।
सा दुष्प्रवृत्तिदीर्धत्वं पुरेरण्य इवासदत्‌ ॥ २५५ ॥
नगराधिकृतस्तसिन्क्षणे छुडामिधोभवत्‌ ।
शास्त्रिणः कामदेवस्य कुल्यो रड्डादिसोदरः ॥ ६५६ ॥

}}