पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ राजतरङ्गिणी

जयेन्द्रस्तत्सुतोपुत्रः
सचिवः संधिमानभूत् ।
युधिष्ठिरस्य पौत्रेण गोपादित्यात्मजन्मना ॥ १३ ॥
श्रीमेघवाहनेनाथ गोनन्दस्योदितं कुले ।
ततः प्रवरसेनोभूद्भूपः कश्मीरमण्डले ॥ १४ ॥
तत्सूनुश्च हिरण्योभूत्पालयन्क्षितिमण्डलम् ।
मातृगुप्तोभवद्दत्तराज्यस्तेन शकारिणा ॥ १५ ॥
ततः प्रवरसेनोन्यस्तोरमाणात्मजः क्षितिम् ।
लेभे हिरण्यभ्रातृव्यस्तस्य पुत्रो युधिष्ठिरः ॥ १६ ॥
ततो नरेन्द्रादित्यश्च रणादित्यश्च भूपतिः ।
क्रमादभूतां तत्पुत्रो विक्रमादित्यभूपतिः ॥ १७ ॥
बालादित्यश्चोदभवद्विक्रमादित्यनन्दनः ।
बालादित्यस्य जामाता ततो दुर्लभवर्धनः ॥ १८ ॥
सुनुर्दुर्लभकस्तस्य चन्द्रापीडोभवत्ततः ।
तारापीड़ोनुजन्मास्य मुक्तापीडोस्य चानुजः ॥ १९ ॥
भूपावास्तां कुवलयापीडो द्वैमातुरोस्य च ।
वज्रादित्यः सुतो राज्ञो मुक्तापीडस्य तत्सुतौ ॥ २० ॥
पृथिव्यापीडसंग्रामापीडावास्तां महीभुजौ ।
जयापीडोस्य मंत्री च जजः पुत्रावपि क्रमात् ॥ २१ ॥
ललितापीडसंग्रामापीडौ ज्येष्ठात्मजस्ततः ।
श्रीचिप्यद्रजयापीडः कल्पपाल्युद्भवोभवत् ॥ २२ ॥
अभिचारेण तं हत्वा सांमत्यादितरेतरम् ।
उत्पलाद्यैरसंप्राप्तराज्यैस्तन्मातुलैः कृतः ॥ २३ ॥
भ्रातुः पुत्रोजितापीडो जयापीडस्य तत्पदे ।
अनङ्गापीड़नामा च संग्रामापीडजस्ततः ॥ २४ ॥