पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः । २८३

निगृहीतवतो दुष्टौ सुजिमल्लार्जुनावपि ।
निस्तापं मम नाद्यापि प्राप्तानुशयमाशयम् ॥ ३२५३ ॥
अथ राज्ञार्थितः स्थातुं परायें धाम्नि सानुगः ।
भोजो नामन्यतान्यत्र राजधान्यां स्थिरां स्थितिम् ॥३२५४
विदूराश्रयनिर्गौप्तभावाप्रचुरदर्शनैः ।
आराधनं धराभर्तुरसाध्यं ध्यातवान्हि सः ॥ ३२५५ ॥
रक्षितॄनग्रहीत्क्ष्मापान्स्थिरं च समकल्पयत् ।
अनयातां नृपं कार्यान सुराराधनागमे ॥ ३२५६ ॥
विज्ञाय भावं प्रीतेन राज्ञा दत्तं ततो गृहम् ।
सर्वोपकरणापूर्ण राजधान्यन्तरेभजत् ॥ ३२५७ ॥
राजापि ममतास्फीतप्रीतिभिः स्वैः परैस्तथा ।
उपासितस्तत्र रतिं चिराश्रित इवाययौ ॥ ३२५८ ॥
भोगवेलोचिताञ्चर्यदर्शनादौ नृपोपि तम् ।
प्रियं पुत्रमिवास्मार्षीद्दूतैः पार्श्व निनाय च ॥ ३२५९ ॥
जग्राह दक्षिणे पार्श्वे भुञ्जानं ज्ञातिगौरवात् ।
स्पर्शास्वादितभोज्यादिदानेनैव व्यसर्जयत् ॥ ३२६० ॥
अकृत्रिमं तथा स्नेहमुवाह जनको यथा ।
लडितं ज्ञातिवत्तस्मिंस्तद्वालापत्यकैः समम् ॥ ३२६१ ॥
तमेवालम्बत व्यक्तिं सोपि वृत्तिं यथा यथा ।
राजा सपरिबर्होपि बिस्रम्भमविगर्हितम् ॥ ३२६२ ||
आसन्नाभ्यन्तराभिन्ना ये द्वैधे तानदर्शयत् ।
राज्ञां विरक्तिं स्वस्यारिबाहुल्यं च व्यसजर्यत् ॥ ३२६३ ॥
अकृत्रिमात्समाधानात्कारणानां सभान्तरे |
न प्रत्यभाजडो नापि धृष्टो नापि वकव्रतः ॥ ३२६४ ॥