पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० राजतरङ्गिणी

व्यजिज्ञपत्स भूपालं देव शस्त्रस्य धारणम् ।
स्वामिसंरक्षणं स्वस्य परित्राणस्य कारणम् ॥ ३२१७ ॥
देवे निजप्रतापानिगुप्तसप्तसरित्पतौ ।
सेवावकाशो विरलः स्वशस्त्रस्यापि दृश्यते ॥ ३२१८ ॥
लोकान्तरेपि शरणं चरणाश्रयणं प्रभोः ।
तत्रात्र लोके किं कार्ये त्राणोपकरणैः परैः ॥ ३२१९ ॥
राजा जगाद तं सत्त्वस्पर्धाबन्धेधुना भवान् ।
निर्व्यूढकृत्यो वादीव कृत्यं नो वर्तते परम् ॥ ३२२० ॥
भोजो बभाषे दाक्षिण्यजननायाधुना प्रभोः ।
सृष्टाहते मया किंचिन्नोपचारार्थमुच्यते ॥ ३२२१ ॥
किं ते न चिन्तितं दुष्टं किं किं न कृतमप्रियम् ।
यदसिद्धं न तव्यक्तिमगादित्यवधार्यताम् ॥ ३२२२ ॥
किं न मल्लान्वये कश्चित्कारणेषूदितो भवान् ।
विद्मः स्माननुकूलं प्राग्यं वयं चर्मचक्षुषः ॥ ३२२३ ॥
यदा यदा देव वाञ्छामकार्ष्म भवदप्रिये ।
भूमिस्तदा तदा भूता पात्रं कम्पस्य भूयसः ॥ ३२२४ ॥
यावत्कवीनां निर्भाति प्रतिभानेन भास्वरः ।
देवाभवन्नः प्रत्यक्षः प्रतापस्तादृशस्तव ॥ ३२२५ ॥
न शेखरे न प्रदरे न दरेप्युज्झितो मया ।
प्रालेये भूभृतः कुञ्जे संज्वरस्त्वत्प्रतापजः ॥ ३२२६ ॥
ततः प्रभृत्यवनतिप्रणयः शरणैषिणः ।
सिद्धः संध्याय वन्ध्यत्वाद्देव दूरस्थितेन मे ॥ ३२२७ ॥
अथाभेदाभिलाषेण पापाद्यत्किल चेष्टितम् ।
स्फुरत्तामात्रकव्यक्त्यै न तु तद्विग्रहाग्रहात् ॥ ३२२८ ॥

१ दृष्टादृते इति स्यात् । २ प्रालेयभूभृतः इति स्यात् ।