पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

नीतिज्ञेन ततो राज्ञा साम्नैव दरदीश्वरः ।
आक्षेपाद्वारितः प्रायात्प्रत्यावृत्त्य निजां भुवम् ॥ २११ ॥
सहस्तमन्वगाच्छन्नं भोजोविक्षत्स्वमण्डलम् ।
भेजे सुस्सलदेवस्य सञ्जपालोनुजीविताम् ॥ २१२ ॥
गृहीतार्थेन भृत्येन निजेनैव प्रदर्शितः ।
भोजः क्षिप्रं नृपात्प्राप निग्रहं तस्करोचितम् ॥ २१३ ॥
देवेश्वरात्मजः पित्थकोपि द्वैराज्यलालसः ।
डामरानाश्रिते राशि निर्याते व्यद्रवद्दिशः ॥ २१४ ॥
विचारपरिहारेण धावन्तः सर्वतो जडाः ।
तिर्यश्च इव हास्याय प्रसिद्धिशरणा जनाः ॥ २१५ ॥
मल्लस्य रामलाख्योहं सुनुरासं दिगन्तरे |
अट्टसुदः कश्चिदेवं चक्रिकाचतुरो बदन् ॥ २१६ ॥
निन्ये प्रवृद्धिं व्यामूढैर्बहुभिर्विप्लवप्रियैः ।
धनमानादिदानेन भूमिपैर्भूम्यनन्तरैः ॥ २१७ ॥
युग्मम् ॥
ग्रीष्मे प्रविष्टः कश्मीरानेकाकी धर्मपीडितः ।
व्यधीयत च्छिन्ननासः परिज्ञाय नृपानुगैः ॥ २१८ ॥
कटके पर्यटन्राज्ञः स एव दहशे पुनः ।
स्वजात्युचितभक्ष्यादिविक्रयी सस्मितं जनैः ॥ २१९ ॥
मिथ्यैव नीतिकौटिल्यैः क्रियतेभ्युदयश्रमः ।
शक्यतेपरथा कर्तुं न दैवस्य मनीषितम् ॥ २२० ॥
शान्तापि ज्वलति क्कापि क्वचिद्दीप्तापि शाम्यति ।
दैववातवशाच्छक्तिः पुंसः कक्षाग्निसंनिभा ॥ २२१ ॥
पलायनैर्नापयाति निश्चला भवितव्यता ।
देहिनः पुच्छसंलीना वह्निज्वालेव पक्षिणः ॥ २२२ ॥