पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

वराश्वान्सुस्सलानीकान्गग्गस्तान्प्राप विद्रुतान् ।
चक्रे भूरितुरङ्गस्य यैर्भूपस्यापि कौतुकम् ॥ १९९ ॥
निविष्टकटकं तं स श्रुत्वा सेल्यपुराध्वना |
क्रमराज्योन्मुखं यान्तं द्रुतमन्वसरन्नृपः ॥ २०० ॥
अन्विष्यमाणसरणिः प्रयत्नादग्रजन्मना ।
प्रविवेश दरद्देशं परिमेयपरिच्छदः ॥ २०१ ॥
दत्तमार्ग तस्य राजा डामरं लोष्टकाभिधम् ।
स सेल्यपुरजं हत्वा नगरं प्राविशत्ततः ॥ २०२ ॥
तस्मिन्दूरं गते वैरकलुषोपि स नाददे ।
भ्रातृस्नेहैरसंरम्भं ग्रहीतुं लोहरं गिरिम् ॥ २०३ ॥
कल्हः कालिन्दराधीशो दौहित्रीं पुत्रवद्गृहे ।
यामवर्धयत स्नेहादपुत्रः पितृवर्जिताम् ॥ २४ ॥
राज्ञो विजयपालस्य सुतां सुस्सलभूपतिः ।
उपयेमे स तां श्रीमाननघां मेघमञ्जरीम् ॥ २०५ ॥
तस्य प्रभावाधिष्ठानाच्छिशोरपि न लोहरे ।
शक्तिरासीद्विरुद्धानामपि बाधाय वैरिणाम् ॥ २०६ ॥
धीर: सुस्सलदेवोपि मार्गेर्निर्गत्य दुर्गमैः ।
आसदद्भूरिभिर्मासैः स्वोर्वी दुर्गिरिवर्त्मना ॥ २०७ ॥
प्रशान्ते व्यसने तस्मिन्धीरस्योञ्चलभूपतेः ।
अन्येपि व्यसनाभासा उत्पन्नध्वंसिनोभवन् ॥ २०८ ॥
भीमादेवः : समादाय भोजं कलशदेवजम् ।
साहायकार्थमानिन्ये दरद्वाजं जगद्दलम् ॥ २०९ ॥
सहो हर्षमहीभर्तुरवरुद्धात्मजोभवत् ।
भ्राता दर्शनपालस्य सञ्जपालस्तु तद्वलम् ॥ २१० ॥

१ नीकाद्गग्गः इत्युचितम् ।